________________
दर
२२५२
२ अनुमानप्रस्तावः ननु अन्यथानुपपन्नत्यमपि सत्येव पक्षधर्मत्यादौ भवति ततस्तदेव हेतुलक्षणं तदसत्त्वादेव च प्रधानास्तित्वमप्यसाध्यमिति चेत् ; न , तदभावेऽपि क्वचित्तदुपलम्मात् । तदाह
तान्यत्रापि वासिद्ध यबिना यदिहन्यते । तन्न तद्गमकं [ तेन साध्यधर्मी च साधनम् ] ॥ ५२ ॥ इति ।
अपिशब्दो मिन्नप्रक्रमोऽसिद्धमित्यस्यानन्तरं द्रष्टव्यः । ततोऽयमर्थः-तत्र तस्मिन् ५ विवक्षिते धर्मिणि असिद्धमपि न केवलं सिद्धम् अन्यत्र वा अन्यस्मिन् दृष्टान्तधर्मिणि इव । वाशब्दस्य इवार्थत्वात् । तकिम् ? तत् साधनं गमकं ततः पक्षधर्मत्वादेरतल्लक्षणत्वमव्यापकत्वादिति मन्यते । क ? तत्र साध्ये। कीदृशं तत् तत्रेति तदिति चोच्यते कुतो वा सदगमकम् ! अत्रोत्तरम्-यद्विना यदन्तरेण यद्विहन्यते यद्विघटते । एतदुक्तं भवति-- यत्स्ययं निवर्तमान लिया निवर्तयति तत्तत्रेति. यश्च यन्निवृत्त्या नियमेन निवर्त्तते तत्तदिति, १० तन्निवृत्त्या निवृत्तिनियमश्च गमकत्वे निवन्धनमिति । ननु तदेव नास्ति यत्र पक्षधर्मत्वादिरहिते तन्निवृत्त्या निवृत्तिनियमः ततो गमकत्वञ्चेति चेत् : न, तस्य बहिरादिसाधनस्य साधनदृषणप्रयोगादेः सविस्तरं निरूपितत्वात् । तस्यैवानुस्मरणार्थं मन्दानुग्रहबुद्धया पुनरस्य वचनात् । अथवा तत्रेति अत्रावधारणमपीति, एतच्चान्यत्रेत्यत्र द्रष्टव्यम् । अत्राप्यसमर्थः-तत्रैव धर्मिण्येव सिद्धन दृष्टान्तपम्मिणि यबिना यद्विहन्यते तत्र तद्गमकम् । किमिव ? अन्यत्रापि वा इति । अन्यत्र दृष्टान्ते १५ धम्मिणि अपिशब्दात् साध्यधर्मिण्यषि सिद्धमिव वाशब्दस्य पूर्ववदिवार्थत्वात् । यथा पक्षसपक्षयोः सिद्ध सत्त्वकृतकत्त्वादि गमकमविनाभावनियमात् तथा पक्ष एवं सिद्ध श्रावणत्वादिकश्वेत्यर्थः । युक्तं कृतकत्वादेर्गमकत्वम् अन्वयथलादविनाभावपरिज्ञानात् , न श्रावणत्वस्य बिषर्य्ययात् । नहि तस्य कचिदनित्यत्वेनान्येन वा शक्यमन्वयदर्शनं शब्द एव भावात, तत्र च तयोविवादात् । तन्न तद्गमकत्वं संशयं तु कुर्वीत वस्तुसतस्तदुभयपरिहारेणानवस्थानात् । उभयोरन्यतरस्मिन्नप्यप्रति- २० पसेरिति चेत्, न; सत्त्वस्याप्येवमगमकत्व प्रसङ्गात् । नहि तस्यापि कचित् क्षणिकत्वेनान्वयः । विद्युत्प्रदीपादावपि क्षणभङ्ग प्रति वावकानां विवादात्, अविवादास्पदस्यैव सपक्षत्वोपपसे: । पक्ष एवं विपके बाधका त्ययबलादविनामावप्रत्तिपत्तेस्तस्य गमकत्वमिति चेत्, अनुकूलमाचरसि, श्रावणत्वस्याप्येवं गमकवावाप्त: । । श्रावणत्वं हिंश्रवणज्ञानविषयत्वम्, तच तज्ज्ञानकारणस्यैव "नाकारणं विषयः" [ ] इति वचनात् । न च नित्यस्य कारणत्वम्; कार्यानुपरमप्रसकादिति निरूपितं २५ "कारणस्य" इत्यादौ । ततो निश्चितनित्यल्यावृत्तिकं तत् शब्दे धर्मिण्युपलभ्यमानमनित्यत्वं गमयत्येव न संशाययति सत्त्ववत् । यदि पुनः श्रवणज्ञानकारणत्वात् श्रावणत्यम् तहिं 'फारणत्वात' इत्येव रस्तु सावता साध्यप्रतिपत्तेः व्यर्थं तज्ज्ञानेन तद्विशेषणमिति चेत्, तावतापि कथं तत्प्रतिपत्तिः अन्वयाभावस्याविशेषात् ? क्षणभजनानन्वयेऽप्यनित्यत्वमात्रेणास्त्येव विद्युत्मदीपदी
१ पक्षधर्मस्यायभाषेऽपि । २ सिटमेव वासियम् आ०, ब०, प० । ३ तसं तति आ०, यक्ष, प०।४ तदागम- आच, ब०, प० । ५ सत्वस्याश्यम- आ, ब०, प० । ६ -यत्वापञ्चेः आ०, १०, प०। ७ न्यायवि० श्लो० १०६। ८ तत्तहि आ०, ब०, प० ।