________________
न्यायचिनिश्चयविवरण
|२५१
अस्ति प्रधानमित्यत्र लक्षणासम्भवस्वतः ॥५१॥ इति ।
अस्ति विपते प्रभानं सत्यरजस्तमसा रसायाचस्थानम् इति च न साध्यते 'साध्यन्ते' इत्यनुवृत्तस्य नेत्यनेनाप्यनुवृत्तेनैव ( नैक ) परिणामेन सम्बन्धात् । कुतो न साध्यते । अत्र भस्मिन् साध्ये लक्षणस्य 'साध्यं शक्यम्' इत्यादेः असम्भवत्वतः सम्भवतो भावः सम्भवत्वं तदभावात् । न अभिप्रेतमप्रसिद्धमित्येव लक्षणमपि तु शक्यच । न च प्रधानं शक्यम् । तस्यैककारणरूपस्य जगत्कारणानेकत्वाहिणा प्रत्यक्षादिना प्रतिक्षपात् अनुष्णामिवत् । अथवा अत्र अस्मिन् परप्रतिपादिते भेदानां परिमाणादौ तल्लिझे लक्षणासम्मवत्वतो लिङ्गलक्षणस्याभावात् न साध्यत इति । त्रैरूप्यमेव 'तरुलक्षणं तदभावादेव
तर्हि तम्न साध्यत इति चेत् ; न ; तस्यालक्षणत्वेन वक्ष्यमाणत्वात् । ततोऽन्यथाऽनुपपन्नत्वस्यैवा१० भावाततस्तन्न साध्यते । तदभावश्च प्रधानानपेक्ष भोगे तभावात् । अस्ति हि विषयानुभवात्मनि
भोगे परिमाणादिः, न च तस्य प्रधान कारणम् अचेतनत्यापत्तेः । अचेतन एव वस्तुतो भोगो बुद्धेविषयाकारपरिणागजैग तत्त्वान , तनावद, जुन पुरुषमा बनिनाद्विभ्रमादेवेति चेत् ; न ; एवं पुरुषस्यैवासिद्धेः । नासिद्धिः, संघातपरार्थस्वाल्लिङ्गात् प्रतिपत्तेरिति चेत् ; कः पुनः पुरुषस्य
सझातेनार्थः ? भोग इति चेत् ; न; तस्य बुद्धावेच भावात् । विभ्रमात्पुरुष ऽपीति चेत् ; न ; विभ्रम१५ स्यैव पुरुषासिद्धावसिद्धेः । तसिद्धौ सिद्धिरिति चेत् ; न , चक्रकदोपात् । तत्सिद्धौ तस्य बुद्धिसंसर्गासम्र भोगविभ्रमः तेन च सवातस्य तादय॑म् , ततश्च तत्सिद्धिरिति । किञ्च
विभ्रमोऽचेतनश्चेन्न तेन भोगमतिर्नरे । अन्यथा व्यर्थमेव स्यात् क्वचिच्चैतन्यकल्पनम् ।।१३८९।। तत्रापि चेतनत्यं चेद्विभ्रमादवकरुप्यते । अनवस्थानदोषस्त्वां जीवन्तन्नावमुञ्चति ॥१३९०॥ न च विनममालेयमेकभोगानुबन्धिनी । प्रतीतिपथमामोति प्रीत्यै या तव कलप्यते ॥१३९१॥ वस्तुनश्चेतनत्ये तु 'भोगचिद्विभ्रमात्कथम् । विश्रमस्यापि भोगत्वादन्यथानुभवात्मनः ॥१३९२।। ततो न परिमाणादेः प्रधानास्तित्वसाधनम् । अन्यथानुपपन्नत्ववैकल्याद् व्यभिचारिणः ॥१३९३॥ साधनादिप्रयोगस्य न चैवं व्यभिचारिता ।
यतस्ततो न सिद्धिः स्याद् बहिर्मावादि वस्तुनः ||१३९४।।
१ एतन्न सा-भा०, २०, प० । २- स्य तने-सा०, २०, ५० । ३ न्यायवि० कोना। ४ तस्यैव का-मा०, व. ० ।५ 'भेदान परिमाणात्पमन्वयात शक्तितः प्रवृतेश्च । कारणकार्यविभामादविभागादैश्वरूपस्य || -सायका० १५ । ६ लिङ्गलक्षणम् । ७ बुद्धि विपर्ययाका-यर०, ०,१०1८ भोगे । ९ साल्यका०१७ | १० भोगविदि-आर, ब०, प० ।