________________
२१५१]
२ अनुमानप्रस्तावः करोतीति चेत् ; स तर्हि विभ्रम एच अतस्मिंस्तह्मणत्यात्। ततः कथं सामान्यसिद्धिः ; तन्मात्रे सम्यक्त्वादिति चेत् । न ; एकत्र सम्यक्त्वविभ्रमयोविरोधात् । अविरोधे वा समानाकारे तस्य सम्यक्त्वं तदेकत्वे तु विभ्रम एव बाघाविशेषात् । तन्न सामान्यस्यैकत्वमाकारः । कुतस्तहि तत्मत्यभिज्ञा ? इत्याह---'दृष्टि' इत्यादि । दृष्टया स्वस्तश्रद्धया मान्धं बुद्धेर्वस्तुविचार प्रत्यपाटयम् आदिशब्दादेकसामान्यसंस्कारादिः स एव दोषः तत इति ।।
स्वमताभिनिवेशादेः सर्वं सर्वत्र विद्यते । इति बुद्धियथेवेयं पारमः प्रकलप्यते ॥१३८७३ मीमांसकादिभिस्तद्वदेकं सामान्यमित्यपि ।
कल्प्यते बुद्धिरीक्षा दृष्टिमान्यादिदोषतः ॥१३८८।। कथमेवं समानपरिणामे समर्थिते विशेषपरिणामो यत इदमवतिष्ठेत-'तत्समानासमानेषु' १० इत्यादीति' चेत् ; न: विशेषप्रत्यभिज्ञया तस्यापि समर्थनात् तदाह–'प्रत्यभिज्ञा द्विधा' इति । कुतो द्विधा ? काचित्सादृश्यविनिवन्धना । काचिदिति वचनादन्या "वैसरश्यनिबन्धना यत इति । सापि प्रमाणपूर्विका प्रमाणतः प्रत्यक्षादेः सामान्यविशेषात्मकवस्तुविषयानुत्पतेः नान्या। या त्वन्या सादृश्यायेकान्तप्रत्यभिज्ञा न सा तत्पूर्विका प्रत्यक्षादिना तद्विषयस्याप्रतिपत्तेः । ततो न ततस्तत्समर्थनमप्रमाणत्वादिति मन्यते । कुतस्तहि सा ? तत्रोत्तरम्-'दृष्टि' इत्यादि १५ व्याख्यानं पूर्ववत् । ततो यदुक्तम्
"सर्वज्ञानानि मिथ्या च प्रसज्यन्तेन कल्पने ।" [मो० श्लो आकृति०७२] इति ।
तद्यदि सामान्यज्ञानवद्विशेषज्ञानानामपि समानाकारपराङ्मुखत्वात् अभिमतमेव तन्मिथ्यात्वं तदभिमुखतयैव सम्यक्त्वोपपत्तेः, तत्र निधित्यादन्यत्र विपर्ययात् । ततः सिद्ध शब्दानां वस्तुविषयत्वं समानपरिणामे सङ्केतात, तस्य च वस्तुत्वेनावस्थापनात् । गौरव २० . कश्चिन्न प्रसिद्धस्तदन्यतो विशेषाग्रहणात् कथं तत्सादृश्येन खण्डादी गोशब्दस्य सङ्केतः । तदुक्तम्
"विशेषग्रहणामावादेका गौः कश्च करप्यताम् ।” मी०श्लो आकृति०७३] इति ।
इति चेत्, न तस्य वृद्धव्यवहारविषयस्य प्रसिद्धत्वात् । वृद्धानाञ्च तदपरव्यवहारविषयसादृश्यासदुपपत्तेः । अतद्व्यवहारद्वीपादागतं तु प्रतिपत्तारं प्रति न प्रसिद्धसादृश्यात्सङ्केतः किन्तु सादृश्यविशेषाधिष्ठानेघु खण्डादिषु 'एते गाव इति प्रतिपत्तव्याः' इति । ततो निरबद्यं तेषां तद्विषयत्वं २५
लिम्वत् । लिहावबस्त्वेब प्रतीयत इति चेत; न; अप्रतिबन्धात् । नहि तस्य तस्मादुत्यत्तिः अशक्यत्वात् । नापि तादात्म्यम्। स्वयमवस्तुत्वापत्तेः, अनेकान्तस्य चानभ्युपगमात् । ततस्ततोऽपि साध्यस्य वस्तुन एवं प्रतिपत्तिः ।
कथं तहिं बहिरादिवत् प्रधानस्यापि सत्त्वं ततो न साध्यते ? अनन्वयादिति चेत्: न; अन्वयस्य भवन्मतेनालिङ्ग लक्षणत्वादिति । अवाह
ग्यायदिएको २४४ । २ बैसाह- प.१३ "लिङ्गस्य यया साध्याख्यवस्तुविषयत्यम्" सा. टि. ४-स्य च तन्म-आ०, प०, ५०।
३०