________________
२४९ ]
२ अनुमान प्रस्तावः
༦༣
स्प्रतिपत्तिन्तिरेव विशेषावधारणे तदभावात् । तदनवारणाच्च प्रतिपत्तुरेव दोषान्न सादृश्यस्य । कथम् अहमिय सर्वे पुरुषाः प्रतिनियतार्थमिन्द्रियैः पश्यन्ति इत्युपमानमश्रान्तम् ? सादृश्यादेव तस्यापि भावात् । ततो विश्रमविलासादेव 'वस्तुनि' इत्याद्यभिजल्पितं न परिशुद्ध ज्ञानसामर्थ्यात् । 'तावता' इत्याद्यपि न सुभाषितम् शाब्दज्ञानवत् शब्देकत्वज्ञाने 'बाधविवर्जनस्याभावात् तस्य च यथावसरं निरूपणात् ।
;
५.
"तथा, वाचकत्वं शब्दस्य अर्थत्रता तदन्तरेण सादृश्यात्, अर्थवत्त्वञ्च सम्बन्धात् । स चन क्षणिकत्वे सम्भवति दुरवबोधत्वात् । सम्भवेऽपि सर्गादी सर्वज्ञकृतस्य तद्वतः शब्दस्यास्माभिरनवलोकनात् कथं तत्र तत्सदृशे बुद्धिः ? यदि मतम् - तत्कालीनैः पुरुषैः तत्सदृशप्रतिपत्त्या तन्निबन्धनो व्यवहारः प्रबन्धेन प्रवर्तितः ततोऽनुमीयते मुख्यः कश्चिदर्थसम्बन्धः शब्द आसीत्, ततः सुगमैव तत्सादृश्यपरम्परा परापरशब्देषु प्रसज्यत इति; तन्न; एवमपि तद्विशेषस्यानवगमात् कथं कचिद्विशि- १० ष्टस्य सादृश्यस्यावगमो यतो विशिष्टार्थप्रतिपत्तये तत्प्रतियल इति चेत् न; लिङ्गेऽप्येवं प्रसङ्गात् । नहि तस्यापि सादृश्यादन्यतो गमकत्वं सामान्यप्रतिक्षेपात् तत्र च सम्बन्धाभावस्य सत्यपि सर्गादिकृते सम्बन्धे तद्वतो ऽन्यत्र तत्सादृश्यापरिज्ञानस्य च शब्दवदुपनिपातात् । तत इदमपि वेदवादिनो बालविलसितमेव
२०
“सम्भवेद्यदि सम्बन्धः सर्गादौ कस्यचित्कृतः । तस्मिन्नबुद्ध नैव स्यादस्माकं सशे मतिः ॥ अथ तत्कालः पुंभिस्तस्मिन् शब्देऽवधारिते । प्रवृतेरनुमीयेत तत्सादृश्यपरम्परा || तत्र सम्बन्धमात्रेण पूर्वोक्तन प्रयुज्यते । स्मायं तन्मूलसादृश्यं तदधीनार्थनिश्चये ॥ " [ मी० श्लो० शब्दनि० २६४ - ६६ ] इति । न च सर्वज्ञकृत सम्बन्धशब्दसादृश्यादेव अधुनातनस्य वाचकत्वम् उपाध्यायोपदर्शितप्रतिबन्धगोशब्दसादृश्यादपि तदपर गोशब्दस्य गवादौ तदर्थप्रयोगोपपत्तेः । उपाध्यायस्यापि तत्र तत्मयुक्तिः तदपरोपदर्शिततत्सादृश्यादपीति न किञ्चिदाद्य साहश्यपरिज्ञानमयासेन ततो युक्तमुक्तम्- 'शब्दः प्रयुज्यताम्' इति ।
यदि न पुनः सदृशपरिणाम एव सामान्यं तस्य व्यक्तित्रदनेकत्वात् कथं तत्र सत्तेत्येकतया व्यवहार इति चेत् ? अत्राह-
ततः सतत [ साध्यन्ते सन्तो भावाः स्वलक्षणाः ] ॥४९॥ ततस्तस्मादपोद्धारनयात् सत्तेति उपलक्षणमिदं तेन द्रव्यत्वं गुणत्वमित्याद्यपि भवतीति शेषः । नन्विदमुक्तमेव "समानम्' इत्यादिनेति चेत् न तस्यैया नेनोपसंहारात् । ततः किम् ? ३०
!
१ विवर्जितस्या- अ० अ० प० २ अथा का ता० ३ भवेद्यदि च स ० ब०, प० । ४ बागादो आ०, ब०, प० । ५ सामान्यमि-सा० |
१५.