________________
१०
रा४७-४५
२ अनुमानप्रस्तावः कथं पुनः सामान्यस्य व्यक्तिव्यतिरिक्तस्याभावें तद्व्यवहार इति चेत् ? अत्राह
समान केनचित्किञ्चिदपरश्च तथाविधम् ।।
भेदिवद् धर्मिणः कृत्वा समानाकार कल्पना ॥ ४॥ इति । भेदिवत् मेदिनमिब कस्वा निश्चित्य । कुतः १ धर्मिणः शब्दादेः । कम् ? समानं सदृशपरिणाममनित्यादिव्यपदेशविषयं कश्चित् न सर्वम्, सर्वस्य भेदिवत्करणे 'धर्मिणोऽनवशेषात्, ५ तस्य सद्यतिरेकेणाभावात् अपरं च तमेवान्यतस्तत्परिणामोदनन्तरं च कृत्वा । कीदृशम् ? तथाविधम् अन्यगततत्परिणामप्रकारम्, अनेन तदपरत्वकरणे निमित्तमुक्तम् तथाविधत्वात्तदपरं कृत्वेति कृतिरपि केनचिदपोद्धारन येन । ततः किम् ? समानाकारकल्पना सामान्यव्यवहारः ।
तदपरत्वकारिण नयं दर्शयति
तदन्यत्र समानास्मा स एवेति तथाविधे] । इति ।
तस्मात् शब्दादेरन्पत्र घटादी यः समानास्मा समानः स्वभावो नित्यत्वादिः स एवं यः शब्दाधिगतः तदात्मैव नापर इति एवं केनचिदपरं कृत्वा तत्कल्पनेति । ततो यदुक्तं कुमारिलेन
"तथा भित्रममि वा सादृश्यं व्यक्तितो भवेत् । एवमेकमनेक वा नित्यं वाऽनित्यमेव नग॥ मित्रत्वेकत्वनित्यत्वे बातिरेव प्रसज्यते ।"
मी० श्लो०शब्दनि० २७१-२७२ ] इतिः तत्पतिविहितम् ; भिन्नत्वादेरपोद्धारनयार्पणथैव भावात् । तदपेक्षया च सादृश्यं 'जातिरेख प्रसज्यते' इत्यस्येष्टत्वेनादोषत्वात् । अकल्पिततद्रूपाया एव तस्या अनभ्युपगमात् । प्रमाणार्पणया नु न तत्र भिन्नत्वादिकम् अभेदानित्यनानारूपतयैव तया तस्य प्रतीतेः । विशेष एवैवं शब्दार्थः स्यान्न २० सादृश्यं तस्य तद्व्यतिरेकेणाभावात्, ततो व्यक्तिवादात् प्रागुक्तान्न सादृश्यबादस्य विशेषः । तदुक्तम्
अभेदानित्यनानात्वे पूर्वोक्तेनैव तुल्यता ।" [ भी० श्लो० शब्दनि० २७२ ]
इति चेत्: न सारमेतत् प्रमाणतस्तस्याऽभेदादिरूपत्वेऽपि नयवशात्तदन्यरूपत्वस्यापि भावात् पूर्वोक्तेन तुल्यत्वानुपपत्तेः । 'प्रमाणतोऽप्येकान्ततस्तत्राभेदादेरप्रतिपत्तरित्यलं बहुजपितेन; तं प्रति अपोवृतभेदेषु समानाकारेषु तन्निबन्धनं प्रयोजनमाह---
तथाविधे। व्यवच्छेदस्वभावेषु विशेषणविशेष्यधोः ॥ ४८ ॥
तचन्निमित्सकः शब्दस्तथान्यत्रापि योज्यताम् । इति । तथा तेन प्रकारेण विधा विधानं तदाकारापोद्धा रण यस्मिन् तस्मिन् धर्मिणि शब्दादौ
१ धर्मियो न विशे- मा०, २०, प० । २- मान-मा०, २०, ५०। ३ भेदरष्टया । ४ एवायं शता० ।५ अभेदनित्यतानाना- प० । ६ प्रमाणे ये-आ०, १०।७ तदान्यत्रा- भा०.०,१०। ८-ण वा विधानं श्रा, ब.प.।