________________
७१
२॥४०-४३]
२ अनुमानप्रस्तावः यात् परिज्ञानमित्यपि न युक्तम् । तत्समुदायस्याप्येकदर्शनागोबरवात् । दर्शनान्तरसमुदायस्य च तद्विषयस्यानभ्युपगमात् । ततो विकरुपादेव तत्परिज्ञानम् , तस्य च स्यविषयेणार्थवत्त्वे प्रत्यभिज्ञानस्यापि तदुपपत्तेः । अर्थ एव सकेतो न ज्ञानाकारेषु इत्याह
मिथ्यार्थप्रतिभासिषु । ज्ञानाकारेषु सङ्कत इनि केषित्प्रचक्षते ॥४०॥ इति । मिथ्या वितथो पोऽर्थ एकत्वसादृश्यलक्षणस्तत्प्रतिभासिषु ज्ञानाकारेषु ज्ञानं प्रत्यभिज्ञानं तदाकारेषु सङ्कत इति एवं केचित् कुत्सिताः कुत्सितत्यञ्च तदर्थस्य सत्यार्थस्यैव मिथ्यार्थत्वप्रतिपादनात्, प्रचक्षते कथयन्ति शाक्याः, तन्नः, तदाकारेष्वेव' सङ्केतशक्तः, तद्वचनाद्वहिस्प्रवृत्तिप्रसङ्गाच्च एकत्वाध्यवसायस्य प्रतिक्षेपात् । क्व तर्हि सः ? इत्याह
वागर्थदृष्टिभागेषु गृहीतग्रहणेष्वपि ।
सत्याकाराययोघेषु सकेसमपरे विदुः ॥४१॥ इति । या च यः अर्यश्च वाओं अष्टिश्च तत्प्रत्ययः त एव भागा वचन विषयस्य तेषु सकेन शब्दसमयम् अपरे जैना विदुः जानन्ति न ज्ञानाकारमाने दोषवचनात् । कोदृशेषु ? मत्याकारः सत्यनिश्चयः अवयोधो येषां तेषु अपिशब्दस्यात्रापि सम्बन्धात् 'असत्याकारावबोधेषु' इत्यपि द्रष्टव्यम्, ततश्च शब्देषु सत्यानृतार्थत्वविभागोपपत्तिः । केषु तेषां तदवबोधत्वम् ? १५ गृहीतानां दर्शनविषयीकृतानां ग्रहणानि परामर्शरूपाणि तेषु सत्सु । बहुवचन विषयभेदेन तेषां बहुत्वात् अपिशब्दाद अगृहीतग्रहणेष्यपि । स्तो गृहीतग्रहणेषु सत्याकारावबोधत्वम् , इतरत्र तदन्यावबोधत्यमित्युक्तं भवति ।
भवतुं तर्हि बागादिभेदेष्वेव समय इति चेत्, न तत्र समयविपयस्यान्यतः प्रतिपत्तिः, भेदान्तरे च समयस्याभावेन फलाभावात् । नापि तेष्वेव. सामान्यवत्सु, तत एव । अभिहितश्चैतत्-२० 'सम्बन्धो यत्र' इत्यादिना । नापि केवले सामान्ये; तस्यार्थक्रियायामशक्तेः, 'विशेषे वैयर्थ्यात् । लक्षितलक्षणया ततो विशेषाधिगमेऽप्युक्तम्-'तद्रस्ययोदिते' इत्यादिनी । न च भेदादौ शक्यक्रियः सम्बन्धः; तस्यैवैकान्तरूपस्य प्रमाणाविषयत्वात् । निरूपितञ्चैतत् । एतदेवाह
नभेदेषु न सामान्ये केवले न च तदति ।
फलाभावादशक्तेश्च समयः सम्प्रवर्तते ।। ४२ ॥ इति । सुवोधमेतत् । किन्निबन्धनः पुनः सङ्केतोऽयमपरे विदुरिति चेत् ! अत्राह--
स एवायं समश्चेति प्रत्ययस्तन्निबन्धनः ।
वित्तथोऽक्तियश्चापि तन्त्रकत्व निबन्धनः ।। ४३ ।। इति । १-वंश-प्रा०, २०, २०। २-स्या प्र-मा०, ब०, ५०। ३- रास-बा०, ब०, प० । ४-तुवा त-- माय, 40, प०। ५न्यायवि० श्लो० २२३। ६ 'नापि केवले विशेपे' इत्यन्वयः । ७ शम्देन लचितं सामान्य तेन च लक्ष्यते विशेष इति । ८ न्यायवि० श्लो० ॥२२॥