________________
२।३८]
२ अनुमानताव: तदभिमायः । सत्यपि तस्मिन् फथन्नाम स्वतोऽनर्थकस्य तदशादर्थवत्त्वम् ! गुडस्यापि निषाभिप्रायाद्विषत्वापसे: । अतिप्रसनाच-तदभिप्रायस्थ नित्यत्वादिविकल्पेप्वपि तद्वादिना भावात् । भावेप्यनित्यादिविकल्पानामेवाविसंवादकत्वेनार्थवत्वं न तेषां विपर्ययादिति श्वेत, गतमिदानी 'तद्वशात्तद्वत्त्वकल्पनम् । अविसंवादोऽपि तेषामेवेति कुतः ? वस्तुनि प्रतिबन्धादिति चेत् , वस्तुदर्शनाद विकल्पस्सतो विवक्षा स्तोऽपि शब्द इति मालिकया शब्दस्यापि तंत्र प्रतिबन्ध इति कथं नियमेनात प्रतिवन्धत्वं तस्योपकल्प्येत ? ५ भवतु प्रतिबन्धः, तथापि तस्य विकल्प्याकारे सामान्य एव सङ्केतात, तस्य बावस्तुत्वान्न वस्तुविषयत्वमिति चेत् । तदेव तस्य कस्मात् ! दर्शनेनरामहणात्, तद्गृहीतस्यैय वस्तुत्वोपपत्तेरिति चेत् । कथमतद्विषयस्य विकल्पेनापि तजन्मना प्रतिपत्तिः ? अन्यथा नीलादेरप्यतद्गोचरस्यैव ततः प्रतिपत्तेर्निराकारमेव दृश्य तदर्शनश्च प्राप्तम् । नीलादेः दर्शनेऽषि प्रतिभासनमुपलभ्यत इति चेत् : ने; एकान्तविसशस्य तदप्रतिवेदनात् । कश्चित् सदृशात्मन इति चेत् । तर्हि विकल्पेनापि तस्यैव ग्रहणात् कथमवस्तुसत्त्वं ५५ दृष्टे तदनुपपत्तेनीलादिवत् । वस्तुविषयत्वे विकल्पस्य वैशयमेव स्याद् दर्शनवत्, न चैवम्, दर्शनस्यैव तत्प्रतीतेः, ततो दर्शनाद्भिन्नविषय एव विकल्पः तद्भिन्न प्रतिभासित्वात रूपदर्शनाद्रसाविज्ञानवदिति चेत् , न ; हेतोय॑भिचारात्-आसन्नपादपदर्शनात् दूरतदर्शनस्याविशदत्वेन भिन्नप्रतिभासत्वेऽपि एकविषयत्वप्रवृतेः । निरूपित चैतत्-- "दूरदूरतरादिस्थैः" इत्यादी । ततस्तयोरिव दर्शनविकल्पयोरप्यावरणमलविश्लेषविशेषादेकविषयत्वेऽपि विशदेतरभावोपपत्तेः उपपन्नमेव १५ वस्तुविषयत्वं विकरूपस्य, एवं शाब्दज्ञानस्यापि । शब्दस्य "सत्यर्थं प्रयुक्तस्य तदभावे ऽपीछया प्रयोगदर्शनात् कथमर्थविषयत्वमिति चेत् ! विवक्षाविषयत्वमपि कथम् ? तदभावेऽपि गोत्रस्खलनादर्श तस्प्रयोगस्यापि प्रतिपत्तेः । तत्र विवक्षाविशेषस्याभावेऽपि तन्मात्रमस्त्येवेति चेत ने : अन्यत्राप्यर्थमात्रस्यानिवारणात । तन्मात्रे न शब्दविशेषस्य प्रयोग इति चेत् , विरक्षामात्रेऽपि न भवेत् । ततो विवक्षाया अपि तदर्थत्वानुपपत्तेः ताल्वादिएरिस्पन्द एव तदर्थः स्यात्, तत्र शब्दस्यान्यभिचारात् । २० विवक्षायां तु व्यभिचारः ; योगिनः : 'तन्मात्राभावेऽपि तत्प्रवृत्तेः । कथं पुनः शब्दजाने ऽनवभासमानस्य तस्य तदर्थत्वमिति चेत् ! अभिमायस्य कथम् ? श्रवणे वक्तुरयमभिप्राय इत्यवगमादिति चेत ? न; तस्यानुमानत्वेनाशाब्दत्वात्, अनुमानस्य च परिस्पन्देऽप्यविशेषात् । ततो न कश्चिदपि शब्दार्थ इति प्राप्तम् ।
एवमेतत्, तव्यबहारस्तु विभ्रमादेव स्वप्नवत् । अस्ति हि स्वप्ने तदभावेऽपि तव्यवहारः-- २५ 'ममायमाह, मया चैतद्वचनात् प्रतीयते' इति तदर्शनादिति चेत् ; न ; अतो वचनात्प्रकृतार्थप्रतिपत्ती अर्थवत एव शब्वस्योपपत्तेः । अप्रतिपत्तौ किमस्योचारण वैफल्यात् । सदपि विभ्रमादेव न वस्तुत इति चेत् । नः अस्यापि तुल्यचोयत्त्वात् । पुनर्विभ्रमकल्पनायामनवस्थापत्तेः । ततः कस्यचित् किश्चित्
१ अभिप्रायवशादर्थवश्वकल्पनम् । २ अर्थे । ३ अवस्तुत्वमव । ४ दशनाविषयस्य । ५ विकल्यात् । प्रत्यक्षाप्रद्यमेव । -भासत्तात् आ०, ०, प० । ८ दूरदर्श- आ०, २०, प० । ५ न्यावि० श्लो०२।१३। १० सत्याथें ताः । ११ सामान्यविवक्षाऽमावेऽसि । १२ तावादिपरिस्पन्दध्य । १३-सावत एव सन्द-आ०, १०, प० ।