________________
न्यायधिनिश्चयविवरणे
[२२३६-३७ चयन्ति" [H० वा० स्व० ११७२] इति वचनात् । योगिदृष्टस्यैव परमार्थसत्योपपत्तेरिति चेत् ; ने । अत्र प्रमाणाभावात् ।
योगिनः परिपश्यन्ति सौगतोक्तं स्वलक्षणम् । किं वा तदन्यदेवेति प्रमाणान्नात्र दृश्यते ॥ १३८१ ॥ वाहमात्रात्तेषु तदृदृष्टावतदृष्टिस्ततो न किम् !
तामयस्थां गतानां तु न विद्मः किं भविष्यति ।। १३८२ ।। उपसंहरनाह
तस्मादभेद इत्यत्र समभावं प्रचक्षते ॥३६॥ इति ।
तस्मात् उक्तन्यायाद् अभेदः तिर्यक्सामान्यम् इति एवम् अत्र विचार्यमाणे सम१० भावं सदृशपरिणाम प्रचक्षते तद्रूपत्वेन तत्त्ववेदिनः । कथं पुनस्तं प्रचक्षीरन् तस्य विसदृशपरिणामे सति विरोधेनासम्भवादिति चेत् ? तदाह
पाते नाशिक तिल साराला शुरन्यथा ] । इति ।
समभावमित्यनुवर्तते तं नेक्षते न किन्तु वीक्षत एव। कस्तन्नेक्षते ? नाविरोधः तपरिणामयोः परस्परापरिहारः कथञ्चिद वस्तुषु तस्य सद्भावात, अन्यथा वस्तुत्वानेरिति भावः । केवलमवि१५ रोध एव तनेक्षते न इति अपिशब्दः ।
तयोः कयश्चित्तादाम्यादविरोधस्तमीक्षते 1
यथा तथैव नानात्वाद्विरोधोऽपि तमीक्षते ।। १३८३ ॥ तदनभ्युपगमे दोषमाह-'न समानाः स्युरन्यथा' इति । अन्यथा अन्येनाविरोध एव विरोध एवं वा तमीक्षत इति प्रकारेण समानाः सदृशा न स्युर्भावाः । तथा हि-यदि भावेषु विसदृशा एव २० धर्मा नापरे विरोधात ; कथं तत्र समानपत्ययो विषयाभायात् ? विभ्रमादिति चेत् । न ; तनिषेधात् ।
तथा यदि सदृशा एव ; तवापि सर्वथा सादृश्येन मेदाभावात् कथं तत्प्रत्ययः । तस्य भेदोपाधित्वेन प्रतीतेः । भवन्ति च समानास्तत्प्रत्ययाः । ततः सूक्तम्-नक्षते न' इत्यादि । 'नानेकर' इत्यादयो व्याख्यानश्लोकाः सदृशपरिणामस्य प्रागुक्तस्यैव तैरभिधानात् ।
कथं पुनः शब्दानामर्थवत्त्वं तदभावेऽपि प्रवृत्तेः प्रधानादिशब्दानाम् ? तेषामपि तत्त्वे न २५ कश्चिदप्यनृतवादी तीर्थकर इति प्रामाण्यमेव सर्वप्रवादानाम् । न च तदुपपन्नं परस्परविरुद्धार्थत्वात् । ततः प्रधानेश्वरादिशब्दवदन्ये ऽप्यनृतार्था एवेति चेत् ; अत्राह
__ अक्षज्ञानेऽपि तत्तुल्यम् [अनुमानवदिष्यते ] ॥३७॥ इति ।
अक्षाणां चक्षुरादीनां कार्य रूपादिविषयं शानम् अशज्ञानं तबाऽपि न केवलं शब्दे तद् अमृतार्थत्वं तुल्यं सदृशम् , तँस्थाऽपि केशमशकादाबनृतार्थत्वाऽवगमात् । अस्तु बहिस्तदं
१-रप- भाग, २०, ५० । २-वः न के-Ne,०, ५०१ ३ सर्वदा सा- भा०,०, १०। ४ अक्षशानस्यापि ।