________________
२२३३-३६]
२ अनुमानप्रस्ताव नो विभ्रमहेतुभ्यः प्रतिभासोऽन्यथा भवेत् ॥ ३३ ॥ इति । तेषामेवाभावादिति भावः । बहुवचन नौयानादिभेदेन तेषां बहुत्वात् । अत्रोत्तरमाह
तदकिञ्चित्करत्व न निश्चिनोति स किं पुनः । इति।
स धर्मकीर्तिः पुनरिति शिरःकम्पे किं कस्मात् न निश्चिनोति । किम् ? तदकिश्चित्करत्वं तेषां विभ्रमहेतूनामकिञ्चित्करत्वमन्यथाप्रतिभासं प्रत्यकारणत्वम् , न च निश्चित्तवान् ५ स्वशास्त्र "तेषां तत्कारणत्वस्यैव तेन निश्चयात्', अन्यथा अभ्रान्तपदवैयपित्तेः । संवृत्त्यैव तन्निश्चयो न यस्तुत इति चेत; जीवन्तु ब्रह्मविदस्तेषामप्यविद्यायां तयैव तदुपपत्तेः । भवत्वेवं तथापि किम् ? इत्यत्राह..
तथा हि दर्शनं न स्याद्भिभाकारपसङ्गतः ॥ ३४ ॥ इति ।
तथा तेनाविद्यानिबन्धनभेदप्रतिभासप्रकारेण हीति सौष्ठवे दर्शनं सौगतस्य विलक्षणमेव १० सर्वमिति मतं न स्यात् न भवेत् । अत्र हेतुः- भिन्नस्तन्मताद्विलक्षण आकारः स्वरूपं यस्य अद्वैतात्मनस्तस्य प्रसङ्गाना प्राप्तेः, भेदस्य प्रान्तत्वे तदन्यप्राप्तेरवश्यम्भावात् । विशेष एव परमार्थसंज्ञः तस्यैव दृष्टेः नाविशेषः परमार्थो विपर्ययादिति चेत्; अत्राह
न च दृष्टेविशेषो यः प्रतिभासात् परो भवेत् । इति ।
नय नैव दृष्ट्रर्दर्शनाद् विशेषः परस्परविलक्षणरूपः सिद्धयतीति शेषः। फीडशो न १५ सिद्धयति ? यो विशेषः प्रतिभासात् परमात्मनः "तमेव भान्तमनुभाति सर्वम्" [ कठो० ५।१५] इति तस्य प्रतिभासरूपत्वश्रवणात् परो विभिन्नो भवेत्, स दृष्टर्न सिद्धमति तस्या एव तत्राभावादिति भावः । भवतु तहिं यथादर्शनं यस्तुव्यवस्थेति चेत् । अत्राह
प्रतिभासभिदेकन तदनेकात्मसाधनम् ॥ ३५ ॥ इति ।
तत् तस्मादेविशेषवत् विशेषस्यापि तद्दर्शनबलादव्यवस्थानात् एकत्र एकस्मिन् घटादौ अने. २० कस्य समानेतरस्थूलेसरादेः आत्मनः स्वभावस्य साधनं सिद्धिः ‘भवतु' इत्याकृप्य सम्बन्धः । कया तत्साधनम् ? प्रतिभासस्य दृष्टेर्भिदा विशेषेण एकान्तवैमुख्यरूपेण । अनेकान्तेऽपि दुर्लभव दृष्टिरिति चेत् आह-~
अदृष्टिकल्पनायां स्यादचैतन्यमयोगिनाम् । इति ।
अनेकान्तस्यादृष्टिरनुपलब्धिस्तत्कल्पनायां स्यात् भवेत् अचैतन्यं चैतन्य- २५ वैकल्यम् अयोगिनां संसारिणाम् । तेषां तदन्यदृष्टरभावात् तदृदृष्टश्चापलापात | भवतु तेषां तदृष्टिः, न तावता तसिद्धिः. योगिभिरन्यथा दर्शनात् "व्याख्यातार; खल्येवं विवे
१ नौयानादीनाम | २ न्यायवि. पृ० १६। ३ प्रत्यक्षलश्चणे ४ तस्य एवं आ०, ०.५० ५-दपि वि-आ०, ५०..1