________________
५८
१०
न्यायविनिश्वविधरणे
[२।२९ द्विस्त्रिानुपलब्धी हि नार्थवान् सम्प्रतीयते।"
[मी०श्लो०शब्दनि०श्लो०२५८-५०) "अर्थवान्' इत्यादेः पुनरुक्तत्वाच्च तदर्थस्य सम्बन्धदर्शनञ्चास्य' [ ] इत्यनेनापि प्रतिपादितत्वात् ।
सादृश्यादर्थवत्त्वमशब्दान्तरवेदिनं प्रति न भवेत्, तेन तत्सादृश्यस्यापरिज्ञानात् । भवतु तदन्तरवेदिनं प्रत्येवेति चेत्, अद्भुतमेतत् स एवार्थवानन्यथा च, इति विरोधात् । अतद्वेदिन प्रत्यर्थवानेवार्य स्वत एव केवलमुपायाभावान्न जानातीति चेत्; उत्तरोऽपि तर्हि स्वत एव वाचक इति किं तत्र सादृश्यावाचकवकल्पनया ? तन्नानन्यश्रुति प्रत्युत्तरस्यार्थवत्त्वमुपपन्नम् । अनर्थवत्त्वे तु पूर्वस्यापि स्यात् तत्राप्यनन्यश्रुतिसद्भावात् , इत्यनर्थकत्वमेव सर्वस्यापि शब्दप्रबन्धस्य प्राप्तम् ।।
अपि च, शब्दान्तरवेदिनामर्थवत्सदृशत्वेन योऽसावभिमतः स एवातद्वेदिना मुख्यो भवेत्, तत्रैव प्रथमं तैरर्थवत्त्वप्रतिपत्तेः, तथा चार्य पूर्वस्मान्मुख्यादभिन्न एव भवेत् मुख्यत्वात्तद्रुपवदिति न शब्दं नित्यत्वप्रतिक्षेपः ; इत्यपि न चोयम्: अनेकान्तथादिनः कचिदर्थवत्त्वेतरयोरपेक्षाभेदेनाऽविरोधात्, दृश्येतरत्ववत् । नहि चक्षुरन्यतोऽप्यदृश्यमेव, तद्वयवहारविलोयापत्तेः । न च स्वशक्तितः पूर्वस्यार्थवत्त्व
यत उत्तरस्यापि तथैव वाचकत्वात् 'सादृश्याद्वाचकः' इति कल्पनं न भवेत्, अपि तु सङ्केतादेव १५ सादृश्यविशेषालम्बनात्, तद्वदुत्तरस्यापि । न चानन्यश्राविणं प्रत्यनर्थकत्वेऽपि वेचनप्रबन्धस्य सर्वथाऽनर्थक
त्यम्, प्रतिपन्नसङ्गतिं प्रत्यर्थयत्त्वप्रतिपत्तेः । न च 'मुख्य' इत्येव पूर्वस्मादुचरस्याभेदः, कालविच्छेदेन तयोर्मेदाध्यवसायात् । तन्न तत्र नित्यत्वप्रसक्तिः । तत इदमप्यपालोच्य जल्पितम्--
"अप्रतीतान्यशब्दाना तत्कालेऽसावनर्थकः ।। प्रतीतान्यश्रुतीनां स्यादर्थवानिति विस्मयः ॥१॥ अथास्य विद्यमानोऽपि कैश्चिदर्थो न गृहथते । तस्यमुसरस्येति किं सादृश्येन वाचकः ॥२॥ अनर्थकत्वमस्य स्यादथानन्यश्रुतीन् प्रति । पूर्वस्मिन्नपि तत्सत्त्वात् सर्वस्यानर्थता भवेत् ॥३॥ अर्थवत्सशत्वेन यो वा श्रुतवता मतः । मुख्योऽसावश्रुतीनां स्यान्नित्यत्वेन प्रयुज्यते॥"
[मी० श्लो० शब्दनि० श्लो० २५०-५४ ] इति । धमादौ हेतावप्यस्य समानत्वाच्च । नहि तस्यापि सादृश्यादन्यतो गमफत्वम् । स्त इदं तत्र वतव्यम् --
१-वत्तत्वम- बा० ब०, प०। २ तदनन्तरवे- भा०, ०, प० । ३ चक्षुष्मता - १०.५०,०। ४ स्वशक्ति एव । ५-चनप्रतिबन्धस्य प्रति-का०,०, प०।६ लोऽसाव.. ता। ७'स एलान्यश्रतरनाम्"- मी० इलो। ८ अर्थवान् स- आ०, २०, प.1 "स्याउदेकावेन युज्यते”- मी० इलोक।