________________
न्यायविनिश्चयविषरणे
[
रा२९
शब्दप्रवृत्तिसारतात् सदृशासदृशात्मसु ।
विचित्ररूपा दृष्टेयं न निषेध्या विपश्चिताम् ॥ १३५४ ॥ तत इदं प्रत्युक्तम्
"न चादृष्टार्थसम्बन्धः शब्दो भवति वाचकः । तथा चेत्स्यादपूर्वोऽपि सर्वः सर्वे प्रकाशयेत् ॥"
[ मी० इलो० शब्दनि० श्लो० २४२ ] इति । सकतादेव शब्दस्यार्थप्रतिबन्धपरिज्ञानात् । ततोऽपि कथमनित्यस्य तत्परिज्ञानम् , उपलब्धस्य ससकालेऽनवस्थानात ? अवस्थितस्य तत्परिज्ञानसिद्धी नित्यत्वमेव तस्य कालान्तरावस्थितिलक्षण
त्वात् । सत्यपि कथञ्चितत्परिज्ञाने न प्रयोजन परिज्ञातप्रतिबन्धस्य व्यवहारे ऽनन्वयात्, तत्काल१. माविनश्च ततोऽन्यत्वात् । न चान्यस्य तत्परिज्ञाने तदन्यस्य वाचकत्वम् ; गोशब्दस्य तत्पतिपत्ती
अश्वशब्दस्यापि तत्यापः । 'गोशब्दाद् गवाश्वशब्दयोः भेदे.ऽपि गोशब्द एव स्वाभाव्याद्वाचक खण्डादीनां तथाप्रतीतेः, नाश्वशब्दो विपर्ययात् । दृष्टं चैतत् तेजसः कस्यचित् रूपसम्बन्धपरिज्ञानेऽपि तदपरस्यापि तेजस एव रूपप्रकाशकत्वं नापैरस्येति चेत्; भवेदेवं यदि तत्र किञ्चिन्निबन्धनम्, सदभावे
कोऽसाविति तगिरायचेः । गगनु प्रतीगिरेट का विनम्-चरिणतुणारित सत्यसौ भवन्ती व्यवहार१५ मक्कल्पयति स एवामिधित्सितस्य वाचको नापर इति तन्निश्चयोपपत्तेरिति चेत् ; इत्थं भवतुं वा श्रोतुस्तदुपपचिर्न तु वस्तुः, उच्चारणात् पूर्व तन्निकधनाभावात् । अनुत्पन्नतन्निश्चयश्च कथमसौं शब्दं नियतोयविदर्शनार्थमुच्चारयेत् ! अथ सोऽपि जानात्येव 'भयमेवास्य वाचकः' इति; यद्येचं प्रागपि तेनायमवधारित एव तत्क्षणमत्युत्पन्न शरीरे तथापरिज्ञानानुपपत्तेः, एवञ्च नित्य एवायम् । यत्ततम्-'दृष्टं चैतत्,
इत्यादि तदपि न युक्तम् । न हि तेजसः सम्बन्धपरिज्ञानात् प्रकाशकत्यम्, अपि तु चक्षुरादीनां २० सन्निधिमात्रेण सहकारित्वात् । ततो यदुक्तम्-"प्रतिनवस्यापि तस्य तत्वं न शब्दस्य " [ ] तत्र तरपरिज्ञानस्यावश्यापेक्षत्वात् । तस्य चानित्यशब्दवादिनामुक्तन्यायेनासम्भवात् । उक्त चैतत्
"सम्बन्धदर्शनञ्चास्य नानित्यस्योपपद्यते। सम्बन्धज्ञानसिद्धिश्चेत् ध्रुवं कालान्तरस्थितिः ॥१॥ अन्पस्मिन् शातसम्बन्धे न चान्यो वाचको भवेत् । गोशब्दे शातसम्बन्धे नाश्वशब्दो हि बाधकः ॥२॥ अथान्योऽपि स्वभावेन कश्चिदेवावयोधकः । तत्रानिबन्धने न स्यात्कोऽसाविति विनिश्चयः ॥३॥
१ सङ्केतिता गोशब्दात् । २ रसादेः । ३-तु दिश्री-आ०,१०,५०।४ वक्ता ।५-तार्थप्रदर्शश्रा, २०१०