________________
२।२६]
२ अनुमानप्रस्तावः
यथानिश्चयनं तस्य दर्शनं तद्रशास्किल ॥ २६ ॥ इति । निश्चयनस्यानतिक्रमात् यथानिश्चयनम् , पञ्चम्यन्तमेतत् । तस्य रूपस्य । दर्शनं किले. मेति यावत् । किलशब्दस्यारुचिवाचिनो निषेधषरस्वात् । कीदृशात्ततस्तद्दर्शनं न रुच्यत इति चेत् ! तखशात् सदृशेतरात्मकवस्तुवशात् । न ह्यन्यवशान्ति यादन्यदर्शनम् , नीलनिश्चयात् पीतादेरपि तत्प्रसङ्गात् । कुतः पुनस्तद्वशत्वं निश्चयस्येति चेत् ? स्वतस्तस्य बहिरम्तश्च जात्यन्तरविषयतयैव प्रसिद्धः। ५ असाधारणविषयत्वे तु निश्चय एव न भवेद्दर्शनवत् । तत्र चोक्तम्- "अनिश्चितस्य न दर्शनम्। [ ] इति । पुनर्निश्चयान्तरपरिकल्प नायामनवस्थानं पूर्वप्रसङ्गानतिवृत्तः। ततस्तद्वश एवार्य तथामसिद्धेः । एतदेव किलशब्देन प्रसिद्धिधाचिना दर्शयति । तद्वशत्वेऽपि निश्चयस्य कर्थ दर्शनस्य तत्त्वम् ? न हि तदनुसायैव निश्चयो विपरीतस्यापि दर्शनात् । मरीचिदर्शनात्तोयनिश्चयवदिति चेत्; भवतु तत्रै यत्र वाधकप्रत्ययः, न चेहासावस्ति । जात्यन्तरविलक्षणविषयस्य कस्यचिदपि तस्यानुफ्लम्भात् । जात्यन्तर- १० विषयमपि न किञ्चिदुपलभ्यत इति चेत्, न; निश्चयस्यैव दर्शनात, तस्य विकापेतरात्मकतया विकल्पान्तरसदृशेतरात्मकतया च स्वत एबोपलम्मात् । दर्शनं तद्विषयं नोपलभ्यते यदनुसारी निश्चय इति चेत्, न; तस्यापि संस्कारप्राग्भाविनः अवायस्योपदर्शनात् । निश्चयरूषत्वे तस्य किं संस्कारेण तद्पेणेति चेत् ! निश्चयतारतम्यात प्रयोजनविशेषाञ्च | विचारितञ्चैतत् प्रथमप्रस्ताव इति नेह विचार्यते। ततः समानपरिणाम एव सामान्य निधिपत्ययत्वान्नापरं विपर्ययात् । तत्परिणामोऽपि यधनेकवृत्ति- १५ रेकः; कथं तस्य ग्रहणम् ? अनेकविशेषदर्शनादिति चेत् ; न; सन्निहितवर्तमानविशेषदर्शनस्य तदन्यत्राप्रवृत्तेः, तद्वतो विश्ववेदित्वापत्तेः, तथा च किं तस्य शब्देनानुमानेन वा ? यतस्तदर्थेन परिणामिनि सम्बन्धपरिकल्पनेन किं क्लिश्येत ? न च तदनुपलम् तद्गतस्य तत्परिणामस्य प्रतिपत्ति :: व्यापकपतिपचाप्यप्रतिपत्ति विना ऽनुपपत्तेः । भक्तु दृप्टे तस्य ग्रहणम् , अग्रहणञ्चान्यत्रेति चेत् न; विरुद्धधर्माध्यासे। भेटे. स्वरूपविरहापत्तेः । सत्यपि तस्मिन् गृहीतेतरात्मना तस्याभेदे विशेषाणामपि २० परस्परं तत्प्रसङ्गः, तथा चासन्निहितवचढ़व्यतिरेकान्न सन्निहितस्यापि तस्य दर्शनम् | दर्शने वा तत एवासन्निहितस्यापि सर्वस्य दर्शनमिति प्रतीतिप्रत्यनीकमापद्यत । विशेषेभ्यो भिन्न एव तत्परिणामः, ततो म दर्शनादर्शनाभ्यां तत्र तत्करूपनमुपपन्न मिति चेत्; अस्तु नामैवं तथापि कथं स कश्चित् खण्डादीनामेव न कादीनामपि । तैरेवोपकारादिति चेत्: न; तस्य बहुभिरेकस्यासम्भवात् । अनेकवे तु तत्परिणामस्यापि तदव्यतिरेकादनेकत्वं कार्यत्वञ्चेति कथमसावेको नित्यश्चोपगम्येत ! व्यतिरेके स एव २५ प्रसङ्ग ः कथं स तस्येति ? तेनापि तदपरस्य करणादिति चेत्, न; तत्रापि तथा प्रसादनवस्थादोपाच । नोपकारवशात् स तेषाम्, अपि तु तदभिव्यङ्गयत्वात् तत्रावस्थानात्, तैस्तत्वातप्रतिषेधावेति चेन्ः नः अमिन्यङ्ग्यत्वादीनामप्युपकारविशेषत्वेनानुपकारिभिरसम्भवात् । तनैकस्तत्परिणामः सम्भवति यस्य दर्शनं यतो वा सामान्यप्रयोजनमुपकल्प्येत । तदेवाह
१ किलेति भा०,०, प० । २ निश्चयरूपप्रत्यक्षस्य । ३ अवायस्य । ४ समानपरिणामोऽपि । ५-दिताए-श्रा , ५०। ६ विना कृत्यानुष--श्रा, १०, प. ७ भेदस्व-सा., ०.५०। ८ विरुद्धधर्माध्यासे । ५ कथमसौ यः क-श्रा०, २०,०।