________________
५.
न्यायविनिश्चयधिधरणे
[२।२६ पपत्तेः "वस्तुन्येष विकल्पः"[ ] इत्यादि वचनात् । वस्त्वेकल्याबसायात्तेऽपि वस्तुसन्त एवेति चेत् ; न तस्य निषिद्धत्वात् । तदेवाह--'न' इत्यादिना । अपोहिनामिति । कुतः ? तथा तेनापोहिनामिति प्रकारेण खण्डादीनाम् 'अप्रतिपत्तितः' इति । भवन्तु स्वलक्षणरूपा एवापोहिन इति चेत् ;
कुतस्तत्परिज्ञानम् ? निर्विकल्पाद्दर्शनादिति चेत् ;. न; तस्यापि व्यवहारिष्वभावात् । न हि ते ५ तद्दर्शनं विकल्पयन्तो दृश्यन्ते, निश्चयस्यैव अहिरन्तश्च स्थूलाकारगोचरस्य तैरवकल्पनात् । विकल्पै
कत्यावसायातस्य तैरनवकल्पनं नाभावादिति चेत् ; नः पृथगवगतस्य तदवसायामुपपत्तेः । तदवगमः सन्न प्यसत्कल्प एव निर्विकल्पत्वादिति चेत्, न तर्हि ततस्तस्यास्तित्वं व्यवहारविषयः सुप्तस्येव तद्वेदनात् । अनुमानात्तदस्तित्वं तद्विषय इति चेत्: न; प्रत्यक्षतो बहिरन्तश्चासम्भवतोऽनुमानादप्यप्रतिपत्तेः, तस्य तत्पूर्वकत्वात् । तदुक्तम्
"नयन् प्रत्यक्षमभ्रान्तं बहिरन्तरसम्भवम् ।
अनुमानबलाद् व्यक्तमनात्मज्ञस्तथागतः ॥" (सिद्धिवि० परि० १] इति । तन अपोहिनः स्वलक्षणरूपा अपि । तदाह----'न' इत्यादि । न परमतं तथा सेन परोक्तासाधारणप्रकारेण । अप्रतिपत्तितः अपोहिती [ नां ] खण्डादीनामिति । ततो यदुक्तम्
__ "सच सर्वपदार्थानामन्योन्यामावसंश्रयः।
तेनाम्यापोडविषयो वस्तुलाभस्य चाश्रयः ।।" [प्र० वा० ३१७९] इति ; तत्पतिविहितम् ; वस्तुन एव परपरिकल्पितस्याभावात् । सति हि तस्मिन् समानाकारविकल्पः पारम्पयंग तस्मादात्मलाभात् तल्लाभस्याश्रयो भवेन्नासति खरविषाणवत्। तन अतद्धतुफलापोह: सामान्यम् , सदृशपरिणामस्यैव तत्त्वोपपत्तेः ।
कुतः पुनस्तत्परिणामो भावानाम् ? विशेषपरिणामः कुतः १ तत्प्रत्ययात्; परोऽपि तत एवास्तु २० विशेषाभायात् । ततः समानेतरपरिणामात्मानो भावास्तथैव प्रतिपत्तेरिति न्याय्यम् । प्रत्यक्षतो न.
तस्य प्रतिपत्तिः ; ततो बहिरन्तश्चासाधारणस्यैवाकारस्य प्रतिपत्तेः, तत्प्रतिपत्तिस्तु वासनापरिपाकजन्मनो विकल्पादेव, तस्य चावस्तुविषयत्वान्न ततस्तद्वयवस्थापनं न्याय्यमिति चेत् । अत्राह
___पन्न निश्चीयते रूपं जातचित्तस्य दर्शनम् । इति ।
यत् पराभिमतं रूपं दृश्यस्य दर्शनस्य च, न निश्चीयते न संशयादिव्यवच्छेदेनावधार्यते । २५ जातुचित प्रतिसंहारवेलायामन्यदा वा । ने हि तस्य तद्वेलायां निश्चयः; निश्चयस्यैव लदा विकल्प
वेनासम्भवात् । नाप्यन्यदा; अनुमानवैफल्यापत्तेः, निश्चिते समारोपाभावाच्य | तस्य रूपस्य । दर्शनमुपलम्भनम् । 'न' इत्यावृत्त्या सम्बन्धः । न अनिश्चितं दृष्ट नाम, अन्यथा 'सत्तामात्रस्यैव दर्शनं सर्वत्र, मेदप्रतिपत्तिस्तु तदविद्यापरिपाकजन्मनो विकल्पादेव' इति विकल्प्येत । भवतु निश्चितस्यैव तस्य दर्शनमिति चेत् , अत्राह
१ भवतः स्व-भा, प., प० ।२ तस्याप्यपहा-भा., प०, ५०। ३ निर्विकल्पस्य । ४ तैरवकश्रा., २०, ५० । ५-या स्युस्तस्य भा०,.,.। ६ अनुमानस्य | ७ "स्वलचणप्रकारेण"-वा. टि. | ८ अपोहितानां मा०,०, ५०। ९न हि तदभिमतस्य भा०, २०, ५.