________________
बा२५]
२ अनुमानप्रस्तावः
समानश्चेत्कथं भद्र, सादृश्य दृषितं त्वया । अपोह एव सादृश्य भाषानामिति चाकुलम् ।। १३४८ ॥ तस्य वस्तुष्वसभावात् कल्पनारोपितात्मनः । एकलाध्यवसायाच्चेत् तस्य वस्तुषु सम्भवः ॥१३४९|| नैकत्यस्याप्यसभावाचेप्यारोपितरूपिणः । तस्याप्येकत्वनिर्णीतरन्यतस्तत्र सम्भवे ॥ १३५० ।। अनवस्थालतापाशबन्धनान्मुच्यते कथम् । तन्न व्यावृत्तिसामान्यं विचारक्षममीक्षते ॥ १३५१ ॥ अविचार्य चेदिष्टं व्यवहाराय तत्परः । मीमांसकादिसामान्य तथैव न किमिष्यते ।। १३५२ ।। अविचारितरम्यत्वाविशेषेऽपि क्वचित् कथम् ।
पक्षपातः सतां युक्तो न्यायनिर्मलचेतसाम् ।। १३५३ ॥ मा भूत् कल्पनागतस्तदपोहः सामान्य विचारासहत्वात्, खण्डादिगतस्तु भक्त्येव विपर्ययात् । न हि ते खण्डादयः कर्कादिभिरात्मानं मिश्रयन्ति स्वरूपमच्युतिप्रसङ्गात् । ततः स एव तेषां सामान्यमिति चेत्; न; एवमप्यतिप्रसङ्गात् । तथा हि-यथा खण्डादयः कादिव्यावृश्या गोव्यपदेशविषयास्तथा तृणक्न-, गुल्मतूलोपलादयोऽपि स्युः तेषामपि तदविशेषात् | बसेऽपि तम मिति सदारिद्वार मसात्, तथा च गामानयेति चोदितेन तत्रापि प्रवर्तितव्यम् । तदविशेषेऽपि स्वण्हादय एव गाव: तत्रैव बाहदोहावरेककार्यस्य भावात् , न तृणादयो विपर्ययादिति चेत् तत्रैव कुतस्तदायः ? तदपोहादिति चेत; न तृणावावपि तत्प्रसङ्गात् । शफिसायादिति चेत् । तदेव तर्हि सामान्ये न तदषोहः, सतोऽपि तस्य वनगुल्मादी तादूप्याभावात् । तदाह–'न तथा' इत्यादि । न तदपोहः सामान्य तथा तेन , सामान्यरूपप्रकारेण अप्रतिपचितो वनतृणादौ तस्यापरिज्ञानात् । कथं पुनः शक्तिसोम्यमपि सामान्यम् ! कथं च न स्यात् । तस्य बस्तुष्वेकस्याभावात् शक्तिमदमेदात् सामान्यस्य चैकरूपत्वादिति चेत; कथमिदानीं तत एक कार्यम् ? शक्तिभेदे त दस्यैवोपपत्तेः । मा भूदिति चेत्, कथमिदमुक्तम् –
"एकप्रत्यकमर्थिज्ञानाघेकार्थसाधने ।" [५० वा० ३।७२] इति ? तदपि यस्तुतो भिन्नमेव, अभेदस्तु सत्राप्यन्यस्मादेवककार्यादिति चेत् : न; तस्यापि तदभेदे .. मेदेस्यैवोपपत्तेः। तस्याप्यन्यस्मात् तत एकत्वकल्पनायामनवस्थादोषात् । न जैनस्यैकरूपस्वादेव सामान्यम् , अपि तु तत्प्रयोजनात्, तच्चानेकत एव सदृशानुपपन्नम् । अत एवं वक्ष्यति-"नानेकत्र न चैकत्र पूचिः सामान्यलक्षणा" न्यायवि० श्लो० २००] इति । अपि च, के नामापोहिनो येषां सदपोहः सामान्यमुपकरूप्येत ! प्रसिद्धा एच खण्डादय इति चेत; न तेषां तत्त्वतोऽसम्भवात, अवयविवादप्रतिषेधात् । संवृत्या सम्भव इति चेत् ; न तर्हि तदपोहः; तेषामवस्तुत्वाद् वस्तुसतामेव क्ववित्तरवान्यस्वयोरु
१ तस्याव-पा०, ब., प० । २-यन्तीति त-बा, २०, प० । ३ नगगल्मादिक । ४-सामान्यादि-भा, प.प.। ५-सामान्यमपि मा, ब... ६ शक्तिमदभेदे । ७ सम्प्रत्ययसंO, ,प..
२५