SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २ अनुमानप्रस्तावः तीयव्यावृत्तिमतां खण्डादीनाम् । 'भदिनाम्' इत्यस्यापेक्षणेऽपि गमकत्वात् 'भेदसंवृत्तः इति वृत्ति': । केन स वार्यत इति चेत् । एतेन मीमांसकादिदूषणेन । तथा हि-संवृतिविकल्पितस्याकारस्य मंदिभ्यो भेदे तस्यैव लिङ्गादेः प्रतिपत्तेः प्रवृत्तिरपि तत्रैव स्यात् न भेदेषु । न चेदमुचितम् ; अशक्तत्वात् । न हि तस्य बाहादी शक्तिः, मेदिकल्पनावैफल्योपनिपातात् । भवतु भेदिष्वेव प्रतिस्तेषां तदाकारेण लक्षणादिति चेत् । न ; लिलादिनैव तरप्रसङ्गात् , तदाकारस्येव ५ तस्यापि तत्र प्रतिबन्धपरिज्ञानोपपत्तेः । तेनापि सामान्यरूपेणैव तल्लक्षणे अनवस्थापत्तेश्च । ततः 'तत्यपादिते' इत्याद्यत्रापि समानम् । तेभ्यस्तस्याभेदे तु तद्वदेव वस्तुसत्त्वान्न संवृत्त्या प्रतिपत्तिः । कथं वा तया तपतिपत्तिः, कथञ्च न भवेत् ? अतदाकारत्वे साकारवादविनिपातेन तदयोगात् । सदाफारवे कथं तस्याः क्षणिकनिरंशत्वं तद्वदेव देशकालाभ्यां देयात् । तथा तदाकारस्यैव दैर्घ्यं न तस्या इति चेत् ; न; अविबग्भावे तदनुपपत्तेः । विप्वग्भूतैब सा ततः केवलमन्यैब १० संवृतिस्तदविवाभावमाविर्भावयतीति चेत् ; न ; त्यापि तस्याः परिज्ञाने तदयोगात् । तदाकारतया परिज्ञानेऽपि स एव प्रसङ्ग : तस्याः कथं क्षणिकनिरंशत्वमित्यादिः । तस्या अपि ततो विष्कम्भावकल्पनायामनवस्थापत्तिः । तन्न कुतश्चिदप्येकाकारप्रतिपत्तिः । ततो निर्विषयमिदम् "पररूपं स्वरूपेण यया संत्रियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भादिनः ।।"प्र० वा० ३।६७ इति । १५ 'एकार्थप्रतिभासिन्या' इत्यस्यासम्भवात् । यदपीदमन्यत् "तया संधूतनानात्वाः संवृत्या भेदिनः स्वयम् । अभेदिन इवाभान्ति भावरूपेण केनचित् ॥" [प्र० वा० ३।६८] इति । तत्र 'भेदिनः' इति न तावत्तबुद्ध्यपेक्षम् ; तया तन्नानात्वस्थावरणात् । न हि तदावृण्कस्येव तद्भेदमुपदर्शयति विरोधात् । बुद्ध्यन्तरापेक्षमिति चेत् ; कुतः सङ्कलनम्-भेदिनः स्वयमभेदिन इव २० इति ? न नानात्वसंवृतेः; तया भेदिनामप्रवेदनात् । नापि भेदिबुद्धः, तयापि संवृतिविषयस्यापरिज्ञानात उभयविषयाद् बुद्ध्यन्तरादिति चेत्, न; तदसम्भवात् । न हि किञ्चिद्वेदनं कचिद्भेदमुपदर्शयदेव तद्विरर्ययमुपदर्शयितुं समर्थ नीलत्वमुपदर्शयतैव कचित्पीतत्वस्याप्युपदर्शनप्रसङ्गात् । तन्न सामान्याकारः शक्यप्रतिपत्तिक इति न तत्र नापि विशेषे सम्बन्धपरिज्ञानं लिङ्गस्येति प्रलीन एवानुमानव्यवहारः । तत इदमप्यत्र समानम्-'सम्बन्धो यत्र' इत्यादि । ततः सूक्तम् एतेन' इति । इतश्च वार्य इत्याह–'समाना इति तद्ग्रहात्' इति । खण्डादिभिर्मुण्डादयः समानाः सदृशा इति । तेषां भेदिनाम् ग्रहात् प्रतिपत्तेः । तत्रैक कल्पयन् वार्यः' इति । खण्डादय एव मुण्डादय इति प्रतिपत्तौ हि तत्राभेदकल्यनमुपपन्नं न समाना इति मतिपत्तौ, ततस्तेषु समानताया एवं प्रसिद्ध भेदस्य । न च त एव ते इति प्रतिपत्तिर्लोकस्य, एवं व्यवहाराष्टः । ननु च धर्मकीर्तिनाप्येतदभिहितम्-- १ समासः । २ न्यायवि० श्लो. २।२२ | ३ न्यायषिको० २।२५ ३०
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy