________________
न्यायधिनिश्चविवरण
[ २०१८ कालभेदेऽप्यभिन्नैव जातिभिन्नाश्रया सती ॥"
[ मी० लो बन० श्लो० ३०-३२ ] इति चेत् ; उच्यते
व्यक्तीनामेवमेकत्वं कस्मान्न परिकल्प्यते । तथा सति न सामान्यमेकव्यक्तौ तदस्थितेः ।।१३१८।। मिथो न तासामेकत्वं व्यतिरेकेण वेदनात् । इति चेन्ननु जातावप्यस्त्येव व्यतिरेकधीः ॥१३१९।। अन्तरालेषु विच्छेदस्तस्याः कथमियान्यथा । नाप्युपायान्तरं यस्मातद्विच्छेदव्ययस्थितौ ।।१३२०॥ 'विच्छेदवदविच्छेदोऽप्येकप्रत्ययतो यदि ।
विच्छिन्नेतररूपत्वे जातेनिभगिता कथम् ||१३२१॥ कथं चासौ स्वाश्रयेषु वर्तेत ? एकदेशेनेति चेत् ; न तर्हि तत्र समानपत्ययः तस्य जातेरेब भावात् , एकदेशस्य चाजातित्वात् जातिबहुल्वापत्तेः । सर्वात्मना चेत् ; न; तदैवान्यत्र तत्प्रत्ययाभावा
पत्तेः । न झेकत्रैव सर्वात्मना वृत्ता सती तदैवान्यत्र सम्भवति यतस्तत्रापि तत्प्रत्ययः स्यात् । १५ नवरातो तिः सा. ३२वट राथर मासूत्रादेः, परिसमाप्त्या च वृत्तिरविभोः यथा प्रतिपिण्डं
गुणादेः । न च जातेः सावयक्त्वमविभुत्वं वा यतस्तत्रैवंविधा वृत्तिरवकल्प्येत । तस्मादन्याहगेव तवृत्तिस्तस्या अपि तत्रैव दृष्टत्वात् । तदुक्तम् ..
"कारावयवशो वृत्तिः प्रष्टुं आतौ न युज्यते । न हि भेदविनिर्मुक्ते कात्स्न्यभागविकल्पनम् ॥ या चावयवशो वृत्तिः सकमत्रादिषु दृश्यते । भूतकण्ठे गुणादेश्च प्रतिपिण्डं समाप्तितः ॥ तत्रावयवयोगित्वमविभुत्वश्च कारणम् । आकृतेस्तदभावेन न प्रसक्तमदो द्वयम् ॥ न च द्वैविध्यमेवेति वृत्तेरस्ति नियामकम् । विविधापि हि दृष्टत्वात् सम्भवेद् द्विविधा यथा ।।"
[ मी० श्लो० बन० श्लो० ३३-३७ ] इति चेत् ; अत्रोच्यते-तृतीयोऽपि वृत्तिमकारो नापरः स्वरूप तास्तनिष्ठत्वात् , तत्पतीतेः । स्वरूपं च यदि तावदेव यावदेकत्र दृश्यते : कथं व्यापकत्वम् ! न तावदेव, व्यापकत्वादिति चेत् । तस्य तर्हि निश्शेषव्यक्तिप्रतिपत्तावेव सम्भवति प्रतीतिः व्यापकपतिपतेः व्याप्यप्रतिषत्तिनान्तरीयकत्वात् । ३० . तथा च सति सत्वादिसामान्यप्रतिवेदिनः ।
सर्वे भवेयुः सर्वज्ञास्तत्कथं तन्निषेधनम् ॥१३२२|| १ विच्छेदः स्यादवि -ता। २ प्रत्ययस्य । तस्याजा-ता। ३ समवायत्वमपि-ता |