________________
३९
२०१८]
२ अनुमानप्रस्तावः यद्रुपेण तस्याभिव्यक्तिः तदप्यन्यदेव यस्य ततोऽभिव्यक्तिरिति चेत् ; न ; तत्राप्येचं प्रसङ्गादत्र्यवस्थितेश्च । नापि' विशेषरूपेण ; तस्यैव स्वतो भावविलक्षणस्याभावात् । स्वतोऽसतः सत्तासम्बन्धस्याप्यनुपपत्तेः व्योमकुसुमवत् । तन्न तव्यङ्ग्यत्वादपि तस्य तदाधेयल्यम् । तर वृत्तेरिति चेत् । सापि यदि स्वतन्त्रा ; कथमसौ सामान्यतदाश्ययोः ? स्वतन्त्रा च तयोश्चेति न्याघातात् । वृत्त्यन्तरापेक्षयैव (म एव ) सम्बन्धः स्वतन्त्रत्वान्न भवति न स्थभावत इति चेत् । सोऽपि यद्येकः ; कथमनेक ५ सम्बन्धित्वं ततस्तस्याः ? कारणस्वभावादप्येकस्मादेव निस्वशेषकार्यविशेषोत्पत्तेः प्रधानवादस्याप्रतिक्षेपपाप्तेः । अनेकश्वेत् ; न; तभेदे वृत्तेरपि भेदप्रसङ्गात् । भिन्नैव ततो वृत्तिरपीति चेत् ; कथमसौ वृत्तः १ तस्यास्तत्र सम्बन्धादिति चेत् ; न ; तत्राप्यनेफस्वभावकल्पनायामव्यवस्थितः । तत्कार्यत्वादित्यप्यनैनापास्तम् । तस्मादसम्बन्ध एव सामान्यसमवाययोरर्थस्य च ताभ्यामभ्युपगन्तव्यः । न च तथाविधं तत्रितयं कुतश्चिदपि प्रमाणानिश्चितवपुरिति सपुष्पकल्पितमेव तदनल्पमतयः प्रतिपद्यन्ते । तदुक्तम्- १०
"सर्वथा न हि सम्बन्धः सामान्यसमवाययोः । ताम्यामों न सम्बद्धः तानि त्रीणि खपुष्पवत् ॥"
! आप्तमी० श्लो० ६५ ] इति । कुतः पुनः समानपरिणामेऽपि न सामान्यदूषणमिति चेत् ? अत्राह--
समानपरिणामे न तदेकस्यानुपायतः ॥१८॥ इति । १५ समानपरिणामो व्याख्यातः तत्र, न सामान्यदूषणम् । कुतः ! तस्य तत्परिणामस्यैकस्य व्यक्तिप्वनुस्यूतस्य अनुपायता अनभ्युपगमात् । नन्वेवं सामान्ये ऽपि व्यक्तिनियते न दूषणं स्यात् , तस्यापि व्यक्त्यन्तराले विच्छेदेनैकत्वाभावादिति चेत् ; न ; सत्वर्षि तस्मिन्नकस्यैव परैस्तस्याभ्युपगमात् । व्याहतमेतत्–'विच्छिन्नं चैकं च' इति, एकत्वस्याविच्छेदरूपत्वात्तस्य चेतरविरोधादिति चेत् ; भवतु परेषामेवायं दोषः । न दोषः ; तन्नि यतस्यापि तस्यैकप्रत्ययादेकत्वस्यैवोपपत्तः । २० एकत्वे कथमाश्रयमेव इति चेत् ? आश्रयस्य कथं कालभेदः ? सति तस्मिस्तस्यापि नैकल्वमिति चेत् ; न;
क्षणक्षयवादापत्तेस्तस्यानिषेधात् । ततो यथा कालभेदेऽपि व्यक्तिरेकैच तथा प्रतिपत्तेः, एबमाश्रयभेदे ऽपि - जातिरिति प्रतियत्तव्यम् । तदुक्तम्
"प्रत्येकसमवेतत्वं दृष्टत्वाम्म विरोत्स्यते । तथा सत्यपि नानात्वं नैक भविष्यति ।। न हि सम्बन्धिभेदेन स्वरूपैकत्वबाधनम् । विभुत्वावयवाभावौ प्रतिपाद्यौ च शब्दवत् ।। यथा च व्यक्तिरेकैत्र दृश्यमाना पुनः पुनः ।
१-पि शेष- सा | २ यः सम्बन्धः संयोगादिरूपः सम्बन्धान्तरसापेक्षः तस्मिन्नव स्वतन्त्रत्वात् सम्बन्धाभाव आपादयितुं शक्यः न तु स्वभावतः मम्बन्धरूपे समवाये इति भावः । ३ स्वभाव इ-आ०, २०५०। ४ वृत्तः । ५ सांख्याभिमतस्य । ६ कालभेदे |