SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरण [२१८ न हि तस्यैव कचिच्छक्तिरशक्तिरन्यक्रेत्युपपन्नम् मेदापसेः । शक्तिः कचिदन्यत्राशक्ति परेति चेत् : न; विधिनिषेधयोरभेदस्यानभिमतस्य प्रसङ्गात् । ततः कचिच्छक्ताकन्यत्रापि शक्तिरेव, अशक्ती न क्वचिदपि शक्तिरित्येकान्तः । तत एवोक्तम् "आत्मनि ज्ञानजनने यच्छक्त शक्तमेव तत् । अंधाशक्त कदाचिदशक्तं सर्वदेष तत् ।" [प्र० वा० २।२१ ] इति । शक्तमपि सहकार्यभावान्न कर्कादौ तदुपलम्भं जनयतीति चेत् ; खण्डादौ का सहकारी ! स एव खण्डादिरिति चेत् ; कुत एतत् ? तत्र तस्य समयायात् ; कादिरपि स्यातदविशेषात् । शक्तस्य न न तद्रपेक्षणं सहकारिणोऽपि तत्प्रसङ्गात् अनवस्थापत्तेः । गोत्व (त्वं) तत्सहमरिसमुदायस्यैव शक्तिर्न पृथगिति चेत् ; पृथक्तर्हि गोत्वमवस्त्वेव स्यादशक्तत्वात् । तन्न व्याप्तौ तस्य क्वचिदुपलम्भोऽन्यत्रानुप२० लम्भश्योपपन्नः । तथा तस्य कालव्याप्तौ आश्रये असतीव प्रध्वस्तेऽपि तस्मिन्नुपलम्भः स्यात् तज्जननस्वभावत्वात् । आश्रयं तस्य सहकारी, तदभावान्नेति चेत ; न; तदभावेऽपि तस्य तत्स्वभाववाच्युतेः अनित्यत्वप्रसङ्गात् । अत एवोक्तम् "तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षमः ।।" [प्र. वा० २।२२ ] इति । शक्तिरपि तस्य सहकार्येव नापर इति चेत् ; न; तस्य सामान्यादिव व्योमकुसुमादपि कार्य प्रसङ्गात् , स्वतः शक्त्यभावेनासत्त्वस्य तद्वत्सामान्ये ऽपि सहकारिशक्तिकृतस्य च सत्त्वस्य सामान्यक्त्तत्राप्यनिवारणात् । तन्न व्यापि सामान्यम् । एतेन मीमांसकोऽपि सर्वगतसामान्यबादी प्रत्युक्तः । स्यान्मतम्-न तत्सामान्यस्य सर्वगतवेऽपि सर्वत्रोपलम्भः सर्वत्र तदभिव्यक्तावशक्तेः । खण्डादौ भवत्युपलम्भस्तस्य तच्छक्तिभावात , २० तस्य च कार्यादेव तदुपलम्भादवगतेः । कोदावपि किन्न तच्छक्तिरित्यपि न पर्यनुयोगः, 'दाहशक्ति दहनवदाकाशे ऽपि किन्न स्यात्' इत्यपि तत्प्रसङ्गात् । न चैकस्योपलभ्येतरात्मकत्वं विरुद्धम् ; उमयास्मकत्वाद्वस्तुन इति । तत्रोच्यते सामान्यरूपा शक्तिश्चेसदभिव्यक्तिकारणम् । तस्याः सर्वत्र सद्भावात्तद्वयक्तिः सर्चतो भवेत् ॥१२९८॥ शक्तेरपि च तद्व्यत्तिर्व्यक्ताया एव नान्यतः । तद्वयक्तिरपि खण्डादावेव नान्यत्र चेत्तदा ॥१२९९|| शक्तौ तद्वयक्तिकारियां प्रसङ्गः पूर्ववद्भवेत् । पुनस्तद्वयक्तिचिन्तायामापतत्यनवस्थितिः ॥१३००॥ विशेषारमापि शक्तिश्चेन समा खण्डमुण्डयोः । मुण्डात्कर्कादिव व्यक्तिर्गोत्वस्येह कथं भवेत् ! ॥१३०१॥ १५ २ समवायाविशेषात् । २ गोत्वस्य । ३ व्योमकुसुमवत् 1४ व्योमकुसुमेऽपि ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy