________________
२।१८]
२ अनुमानप्रस्तावः दविश्लेषस्यैवोपपत्तेस्तस्य द्विष्ठत्वात् । कथमिदानी रुचकादेः सुवर्णादविश्लेषे ऽपि सुवर्णस्य ततो विश्लेषः ? अन्यथा रुचकाधपक्रमे तस्याप्यपक्रमप्राप्तिः, न चैवम् ; असत्यपि तस्मिन् तदवस्थितरुपलम्भादिति चेत् ; रुचकादेरपि कथमक्स्थायिनः सुवर्णादविश्लेषे ऽनवस्थायित्वं विरोधादिति न किश्चिदेतत् ।
स्यादाकूतम्-वस्तुन्ययं भवति विकल्पः संश्लेषो विश्लेष इति च । न च विभ्रमस्य वस्तुत्वम् , तत्त्वविरोधात् , अतस्तत्र सत्यासत्त्वाभ्यामिव संश्लेपविश्लेषाभ्यामनिर्वचनीयत्वमेव तत्त्वमितिः ५ तदपि दुराकूतमेव; नित्यमुक्तिप्रतिज्ञाव्याघातस्य तदवस्थत्वात् । तथा हि--
निश्चिते सति विश्लेषे नित्यमुक्तत्वसम्भवः । ताद्प्यात्तस्य विश्लेषावाच्यत्वे स कथं भवेत् ॥१२९५॥ आत्मविभ्रमयोस्तस्माद्विश्लषं वक्तुमर्हसि । तथा चेवन्यभावानामप्यसौ किन्न कथ्यते ? ॥१२९६॥ कुतोऽसाविति चेदात्मभ्रमयोरप्यसौ कुतः ।
तथासंवित्तिभावाच्चेदन्यत्रापि स दृश्यते ॥१२९७॥ तवाह-'तथासंवित्तिसम्भवान्' इति । तथा तेन विश्लेषप्रकारेण सर्वभावानां संविरोः सभ्यगबुद्धेः सम्भवात् विश्लेषो विश्लेषाच्च संसर्गो नास्तीति संग्रहणेन तत्संवित्तरविद्योपरचितत्वं प्रत्याख्यातम् ; तद्रचितरवे सम्यक्त्वानुपपत्तेः । समीचीना च तत्संवित्तिः बाघकाभावात् । १५ 'भ्रान्ता तत्संवित्तिः भेदविषयत्वात् मायातोयादिसंवित्तिक्त्' इत्यनुमान बाधकमिति चेत् ; न; तस्य विभ्रमात्मभेदसंविश्या व्यभिचारात् । ततः स्थितम्-'संमो नास्ति' इति ।
___तथा विश्लेषोऽपि न केवलः संसर्गरहितः । कुतः ! संसर्गात् समाश्लेषात् सर्वभावानाम् । तदपि कुतः ! तथा संवित्तिसम्भवात् । सथा तेन संसर्गप्रकारेण संविसः गौरयम् गौरयमित्यनुगमयत्या बुद्धः सम्भवात् । संसर्गश्चात्र न मिश्रीमावो मतान्तर- २० सिद्धिप्रसङ्गात् , अपि तु सदृशपरिणामः तस्यैवोक्तसंवित्तौ प्रत्यवभासनात् , संसर्गशब्देन च तदभिधानोपपत्तेः समः सर्गः संसर्ग इति । नत्र तसंवित्तेनिमत्वं विश्लेषसंवित्तावपि तत्प्रसङ्गात् , बाधकाभावस्योभयत्रापि समानत्वादिति । एतावन्तरश्लोकी, 'समानपरिणाम' इत्यादेराभ्यां व्याख्यानात् ।
कुतः पुनः समानपरिणाम एवं सामान्यमभिमतं न नैयायिकादिकल्पितमेवेति ? अत्राहतस्याप्तिव्यतिरेकाम्यां मतं सामान्यदृषणम् । इति ।
२५ मात् अनन्तरोक्त सामान्य मतम् इष्ट जैनस्य । कुतः ? सामान्यस्यान्यकल्पितस्य दूषणं सामान्यदूषणं यत इति । तदपि कुतः । व्याप्तिश्च सामान्यस्य स्कयक्तिवत् व्यक्यन्तरेष्वपि भावः, व्यतिरेकन्ध स्कव्यक्तिष्वेव भावस्ताभ्यां व्यासिंव्यतिरेकाभ्याम् । तथा हि--यदि सामान्यं ब्यापिः खण्डादिवत् कर्कादावपि गोत्वस्य भावाद् बाहाद्यर्थी तत्रापि किन्न प्रवर्तेत ? तत्र तस्यानुपलम्भादिति चेत् ; खण्डादावुपलम्भः कुतः ? तत्र तस्य तत्करणशक्तेरिति चेत् ; ककांदावपि स्यात् । ३०
१"चकं मङ्गलद्व्ये ग्रीवाभरणदन्तयोरिति विश्वप्रकाशिका । -ता-दि।२- स-मा.., १. । ३ इति वचनवि-बा.ब.प.
-