________________
१२०
न्याय-दीपिका
इत्याद्यनुवृत्तप्रत्ययसम्भवात्' । 'विशेषोऽपि 'स्थूलोऽयं घटः, सूक्ष्मः' इत्यादिव्यावृत्तप्रत्ययालम्बन। घटादिस्वरूपमेव । 'तथा चाह भगवान् माणिक्यनान्दभट्टारक:-"सामान्य-विशेषात्मा तदर्थः" [परीक्षा० ४-१] इति ।
७७. "पर्यायो द्विविधः-अर्थपर्यायो व्यञ्जनपर्यायश्चेति । तत्रार्थपर्यायो भूतत्वभविष्यत्वसंस्पर्शरहितशुद्धवर्तमानकालावरच्छिन्नं वस्तुस्वरूपम् । तदेतदृजुसूत्रमयविषयमामनन्त्यभियुक्ताः । एतदेकदेशावलम्बिनः खलु सौगता: क्षणिकवादिनः । व्यन्जन व्यक्तिः प्रवृत्तिनिवृत्तिनिवन्धनं जलानयनाद्यर्थक्रियाकारित्वम्, तेनोपलक्षितः पर्यायो व्यञ्जनपर्याय:, मृदादे; [यथा] पिण्डस्थास-कोश-कुशूल-घट-कपालादयः4 पर्यायाः ।
नोक्तकारिकया दर्शितानि दूपणानि, तेषां गणः समूहस्तस्य प्रसरो विस्तरस्तस्य प्रसङ्गस्तस्मादित्यर्थः ।
१ अनुगतप्रतीतिभावात् । ततो घटत्वादिसामान्यं घटादिव्यक्तेः कथविभिन्नमेवेत्यवसेयम् । २ तदुक्तं परीक्षामुखे-'विशेषश्च ।४-६। पर्यायव्यतिरेकभेदात् ॥४-७। एकस्मिन् द्रव्ये क्रमभाविनः परिणामाः पर्याया प्रास्मनि हर्षविषादादिवत् ।४-८। अर्थान्तरगतो विसदृशारिणामो व्यतिरेको गो-महिषादिवत् १४-६१३ स्वोक्तमेव प्रमाणयति तथा चाहेति । ४ संक्षेपत्तः सामान्य विशेषं च निरूप्य पनि निरूपयितुमाह पर्यायति ।
1 मु 'वलम्वनं'। 2 प म 'कालत्वाव' । 3 मा 'निबन्धमजलानय. नाचयक्रियाकारिखे', म प म निबन्धनजलानयनाद्यर्थक्रियाकारित्व' । 48 'कपालमालादयः' ।