________________
११८
न्याय-दीपिका
कस्वानुषङ्गाद्वयक्तिस्वरूपवत् ।
काटेवाभ्यां नयनापनेसासमय । किञ्च, एकत्र व्यक्ती सर्वात्मना वर्तमानस्यान्यत्र वृत्तिनं स्यात् । तत्र हि दृस्तिस्तद्दे शे गमनात्, पिण्डेन सहोत्पादात्, तद्देशे सद्भावात, अंशवस्या वा स्यात् ? न तावद् गमनादन्यत्र पिण्टे तस्य वृत्तिः; निष्क्रियत्वोपगमात् । किञ्च, पूर्वपिण्डारिरपागेन तत्तत्र गच्छेत, अपरित्यागेन वा ? न तावत्परित्यागेन, प्राक्तनपिण्डस्य गोत्वपरित्यक्तस्थागोरूपताप्रसङ्गात् । नाप्यपरित्यागेन, अपरित्यक्तप्राक्तनपिण्डस्यास्मानंशस्य रूपादेरिव गमनासम्भवात् । न ह्मपरित्यक्तपूर्वाधाराणां रूपादीनामाधारान्तरसंक्रान्तिदंष्टा। नापि पिण्डेन सहोत्पादात्, तस्यानित्यत्वानुषङ्गात् । नापि तई से सस्वात्, पिण्डोत्पत्तः प्राक् तत्र निराधारस्यास्थावस्थानाभावात् । भावे वा स्वाथयमात्रवृत्तित्वविरोषः । नाप्यंशवत्तया, निरंशत्वप्रतिज्ञानात् । ततो व्यक्त्यन्तरे सामान्यस्याभावानुपङ्गः । परेषाँ प्रयोग: 'ये यत्र नोत्पन्ना नापि प्राग. वस्थायिनो नापि पश्चादन्यतो देशादामतिमन्तस्ते तत्राऽसन्तः, यथा खरोतमाङ्ग तद्विषाणम्, तथा च सामान्यं तच्छुन्यदेशोत्पादवति घटादिके वस्तुनि' इति । उक्तं च
न याति न च तत्रासीस्ति पश्चान्न बांशवत् । जहाति पूर्व नाधारमहो व्यसनसन्ततिः ॥'-प्रमेयक पृ० ४७३ । किञ्च, इदं सामान्य व्यक्तिभ्यो भिन्नं चेत्, तत् व्यक्त्युत्पत्ती उत्पद्यते न वा ? यात्पद्यते, तद्वदेवानित्यत्वम् । नोटाद्यते चेत्, तत् उत्पत्तिप्रदेशे विद्यते न दा? यदि विद्यते, व्यक्त्युत्पत्तेः पूर्वमपि गृह्यत । अथ तद्दे शे तत् नास्ति, उत्पन्ने तु व्यक्तिविशेषे व्यक्त्यन्तराद् प्रागच्छति । ननु ततः सत् प्रागच्छत् पूर्वव्यक्ति परित्यज्य आगच्छति न वा ? प्रथमपक्षे तस्याः तग्रहितत्वप्रसङ्गः । अधापरित्यज्य, तत्रापि कि व्यक्त्या सहवागच्छति कि वा केनचिदंशेन तव तिष्ठति केनचिदागच्छति ? प्रथमविकल्पे शावले. येऽपि 'बाहुलेयोऽयम्' इति प्रतीति: स्यात् । द्वितीयविकल्पस्त्वयुक्तः,