________________
३. परोक्ष-प्रकाश:
११७ लक्षणकथनम् । 'अनेके अन्ता धर्माः सामान्य-विशेष-पर्याय-गुणा। यस्येति सिद्धोऽनेकान्त: । तत्र सामान्यमनुवृत्तिस्विरूपम्। तद्धि घटत्वं पृथुबुध्नोदराकारः3, गोत्वमिति सास्नादिमत्वमेव । तस्मात्र व्यक्तितोऽत्यातनयन्नित्यमेवमनेकवृत्ति । अन्यथा
१ मनेकान्तस्य व्युत्पत्तिमुखेन लक्षणं निवघ्नाति अनेके इति । २ अनुगताकारप्रतीतिविषमित्यर्थः । अत्रायं विशेष:-'सामान्यं द्विविषम् अवतासामान्यं तिर्यक्सामान्यं चेति । तवोर्वतासामान्य क्रमभाविपु पर्यायवेकत्वान्वयप्रत्ययग्राह्य द्रव्यम् । तिर्यक्सामान्य नानाद्रव्येषु पर्यायेषु च सादृश्यप्रत्ययग्राह्य सदृशपरिणामरूपम् ।' युक्त्यनुशा० टी० पृ. ६० । 'सामान्य द्वेधा तिर्यगृध्वंताभेदात् । ४-३ । सदृशपरिणामस्तियंक खण्डमुण्डादिषु गोत्ववत् । ४-४ । परापरविवर्तव्यापि द्रव्यमूर्यता भृदिव स्थासादिषु'।४-५॥ परीक्षामुख । ३ 'सामान्य द्विविधं परमपरं च । तत्र पर सत्ता, अपरं सत्ताव्याप्यं द्रव्यत्वादि । तत्र नित्यमनेकव्यक्तिवृति सामान्यम्, नित्यत्वे सति स्वाश्रयान्योन्याभावसामानाधिकरण वा । परमपि सामान्यमपरमपि तथाऽपरं तु सामान्यं विशेषसंज्ञामपि लभते ।'-शेविकोपर पृ० ३४ । तन्न युक्तम्-नित्यकरूपस्य गोत्वादेः कम-योगपद्याभ्यामक्रियाविरोधात् । प्रत्येक परिसमाप्त्या व्यक्तिषु वृत्ययोगाच्चानेक सदृशपरिणामात्मकमेवेति तिर्यकसामान्यमुक्तम् ।'-प्रमेयर० ४-४, १० १७६ । 'तच्चाऽनित्यासर्वगतस्वभावमभ्युपगन्तव्यम्, नित्यसर्वगतस्वभावस्वेऽयंक्रियाकारित्वायोगात् । तत् (सामान्य) सर्वसर्वगतं स्वव्यक्तिसर्वगत वा ? न तावत्सर्वसर्वगतम् ; व्यक्त्यन्तरालेऽनुपलम्यमानत्वादयक्तिस्वास्मवत् । 'नापि स्वयक्तिसर्वगतम् ; प्रतिव्यक्ति परिसमाप्तत्वेनास्याऽने
1 'पर्याया गुणा' । 2 म प म 'अनुवृत्त' । 3 मा प 'प्युबुझ्नोदराद्याकारः'।