________________
१०४
न्याय-दीपिका
हरणं च सम्यग्दृष्टान्तवचनम् । कोऽयं दृष्टान्तो नाम इति चेत्; उच्यते व्याप्तिसम्प्रतिपत्तिप्रदेशो दृष्टान्तः । व्याप्तिर्हि साध्ये वादी सत्येव साधनं धूमादिरस्ति, असति तु नास्तीति साध्यसाधन नियतसाहचर्य । लक्षणा । एतामेव 2 साध्यं विना साधनस्याभावादविनाभावमिति च व्यपदिशन्ति । तस्याः सम्प्रतिपत्तिर्नाम वादिप्रतिवादिनोर्बुद्धिसाम्यम्', सैषा यत्र सम्भवति स सम्प्रतिप्रदेशो महानसादिधूमति नियमेनाग्यादिरस्ति श्रग्न्याद्यभावे नियमेन धूमादिनस्तीति सम्प्रतिपत्तिसम्भवात् । तत्र महानसादिरन्वयदृष्टान्तः । श्रत्र साध्यसाध
J
'मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते -- जनतर्कभाषा पृ. १६ १ 'सम्यग्दृष्टान्ताभिधानमुदाहरणम् – क्यापसार पृ० १२ । 'दृष्टान्तवचनमुदाहरणम्' - न्यायकलिका पृ० ११ । २ यथा चोक्तमसम्बन्धो यत्र निर्मासः साध्यसाधनभयोः ।
--
स दृष्टान्तः तदाभासाः साध्या विविकलादयः ॥
-न्यायविनि० का ० ३०० १
३ 'लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्त: ' - न्याय -: सू० १-१-२५ । 'तत्र दृष्टान्तो नाम यत्र मूर्खाविदुषां बुद्धिसाम्यं' - चरकसं० पृ० २६३ । 'दृष्टान्तवचनं हि यत्र पृथग्जनानामार्याणां च बुद्धिसाम्यं तदा वक्तव्यम् । दृष्टान्तो द्विविधः सम्पूर्ण दृष्टान्त प्रांशिकदृष्टान्तश्च' – उपायहृवम पृ० ५ । ४ 'दुष्टान्तो द्वेधा श्रन्वयव्यतिरेकभेदात् ' 'साध्यव्याप्तं साधनं यत्र प्रदश्यंते सोऽन्वयदृष्टान्तः - परीक्षा० ३-४७, ४८ 'दृष्टान्तो द्विविधः साधम्र्येण वैधम्र्मेण च । तत्र साधर्म्येण तावत्,
1 म म नियतता साहचर्य' । २ प भ म 'एनामेव' ।