________________
१०२
न्याय-दीपिका गर्भस्थो मैत्रीतनयः श्यामो भवितुमर्हति मैत्रीतनयत्वादितरतत्तनयवदिति । अत्र मैत्रीतनयत्वं हेतु: पक्षीकृते गर्भस्थे वर्तते, सपक्षे इतरतत्पुत्रे वर्तते, विपक्षे अश्याम वर्ततापीति शङ्खाया अनिवृत्तेः शक्षितविपक्षवृत्तिक: । अपरमपि शङ्कितविपक्षवृत्तिकस्योदाहरणम्-अर्हन् सर्वज्ञो न भवितुमर्हति वक्तृत्वात् रथ्यापुरुषवदिति। वक्तृत्वस्य हि हेतोः पक्षीकृते अर्हति, सपक्षे रथ्यापुरुष यथा वृत्तिरस्ति तथा विपक्षे सर्वशेऽपि वृत्तिः सम्भाव्येत 3, वक्तृत्वज्ञातत्वयोरविरोधात् । यद्धि येन सह विरोधि तत्खलु तहति न वर्तते । न ५ बबन-ज्ञानयोलकि विरोधोऽस्ति, प्रत्युत ज्ञानवत एव बचनसौष्ठवं स्पष्ट दृष्टम् । ततो ज्ञानोत्कर्षचति सर्वशे वचनोत्कर्षे काऽनुपपत्तिरिति ? ___६३, 'अप्रयोजको4 हेतुरकिञ्चित्करः । स द्विविध:-सिद्धसाधनो बाधितविषयश्चेति। तत्राद्यो यथा, शब्दः श्रावणी भवितुमर्हति शब्दत्वादिति । अत्र श्रावणत्वस्य साध्यस्य शब्दनिष्ठत्वेन सिद्धत्वाद्धेतुरकिचित्करः। बाधितविषयस्त्वनेकधा। कश्चित्प्रत्यक्ष
बाधितविषयः, यथा-अनुष्णोऽग्निद्रव्यत्वादिति । अत्र द्रव्यत्वं • हेतुस्तस्य विषयत्वेनाभिमतमनुष्णत्वमुष्णत्वग्राहकेण स्पार्शनप्रत्यक्षेण बाधितम् । ततःकिञ्चिदपि कर्तुमशक्यत्वादकिंचित्करो
१ ननु कि नामाप्रयोजकत्वमिति चेत्, अन्यथासिद्धत्वमप्रयोजकत्वम्, साध्यसिद्धि प्रत्यसमर्चवनित्यर्थः ।।
1Rप मु प्रतिषु 'वत्तंते नापोति' पाठः। 24 म म 'न भवति' । 3ममु सम्भाव्यते' प 'सम्भाव्येति' पाठः। 4 म 'भथाप्रयोजको' । 54 4 'स्पर्शनेन प्रत्यक्षेण'।
-