________________
ध्याय-दीपिका रहिता हेतुवदवभासमाना हेत्वाभासाः । ते चतुविधा:-प्रसिद्धविरुद्धानकान्तिकाकिञ्चित्करभेदात् । 'तत्रानिश्चयपथप्राप्तोऽसिद्धः । अनिश्चयपथप्राप्तिश्च हेतोः स्वरूपाभावनिश्चयात् स्वरूपसन्देहाच्न । स्वरूपाभावनिश्चये स्वरूपासिद्धः, स्वरूपसन्देहे सन्दिग्धासिद्धः । तत्राद्यो यथा-परिणामी शब्द: चाक्षुषत्वादिति । शब्दस्य हि श्रावणत्वाच्चाक्षुषत्वाभावो निश्चित इति स्वरूपासिजश्चाक्षुषत्वहेतु: । द्वितीयो यथा, धूमवाष्पादिविवेकानिश्चये कश्चिदाह-'अग्निमानयं प्रदेशो धूमवत्त्वात्" इति । अत्र हि धूमवत्त्वं हेतुः सन्दिग्धासिद्धः, तत्स्वरूपे सन्देहात् ।।
१ तदुक्सं श्रीमद्भट्टाकलङ्कः
अन्यथानुपपरवरहिता ये विम्मिताः । हेतुत्वेन परस्तेषां हेत्वाभासत्वमीक्ष्यते ।।
प्यायवि० का० ३४३ । २ तथा चोक्तम्-'हेत्वाभासा प्रसिद्धविरुद्धानकान्तिकाकिञ्चित्कराः।' -परीक्षा० ६-२१ । एतेषां संक्षेपलक्षणानि
स विरुद्धोन्यथाभावावसिनः सर्वधाप्रत्ययात् ॥ व्यभिचारी विपक्षेऽपि सिऽकिञ्चित्करोऽखिला।
प्रमाणसं० का ४८, ४९ ३ हेत्वामासानां चतुर्भे देषु प्रथमोद्दिष्टमसिद्ध लक्षयति तत्रेति । ४ मदुक्तं श्रीमाणिपयनन्विभिः-'अविद्यमानसत्ताक: (स्वरूपासिद्धः) परिणामी शब्दश्चाक्षुषत्वात् ।'-परीक्षा० ६-२३ । ननु कुतोऽस्य चाक्षुषत्वहेलोरांसद्धस्वमिति चेत्तदप्याह 'स्वरूपेणासरवात्'-परीका ६-२४ इति । ५ उफ्तम्च परीक्षामुखकृता-'अविद्यमाननिश्चयो (सन्दिग्पासिद्धः)