________________
न्याय-दीपिका गर्भस्थे तत्सद्भावात् । सपक्षेषु सम्प्रतिपन्नपुत्रेषु। तस्य विधमानस्वात्सपक्षे सत्त्वमप्यस्ति । विपक्षेभ्यः पुन रश्यामेभ्यश्चत्रपुत्रेभ्यो व्यावर्त्तमानत्वाद्विपक्षाद्वयावृत्तिरस्ति। 'विषयबाधाभावादबाधितविषयत्वमस्ति । न हि गर्भस्थस्य श्यामत्वं केनचिद् बाध्यते । प्रसत्प्रतिपक्षत्वमप्यस्ति, प्रतिकूलसमबलप्रमाणाभावात् । इति पाश्चरूप्यसम्पत्तिः । —रूप्यं तु'सहस्रशतन्यायेन2 सुतरां सिद्धमेव।
[अन्यथानुपपन्नत्वमेव हेतोलक्षणमित्युपपादनम् । ५८. ननु च न पाञ्चरूप्यमानं हेतोर्लक्षणम् । किं तहिं ? "अन्यथानुपपत्त्युपलक्षितमेव लक्षणमिति3 चेत् तर्हि संवैका तल्लक्षणमस्तु4 'तदभावे पाञ्चरूप्यसम्पत्तावपि मैत्रीतनयत्वादी न हेतुत्वम् । तत्सद्भावे पाञ्चरूप्याभावेऽपि कृत्तिकोदयादी हेतुस्वमिति । तदुक्तम्
अन्यथानुपपन्नत्वं यत्र तत्र प्रयेण किम् ।। नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥
[ ] इति बौखान प्रति । १ गोरेभ्यः । २ विषयः साध्यम्, तच्चात्र श्यामस्वरूपम्, तस्य प्रत्यक्षादिना बाधाभावात् । ३ यथा सहस्र शतमायात्येव तथा मैत्रीतनयत्वेपाचरूप्यप्रदर्शिते रूप्यं प्रदर्शितमेवेति बोध्यम् । ४ अन्यथानुपपत्तिविशि ष्ट मेन पाञ्चरूप्यं हेतोलक्षणमित्यर्थः । ५ अन्मयानुपपत्तिरेवान्यनिरपेक्षा ६ कारणमाह तवभावे इति, तथा च हेतोः स्वसाध्यगमकत्वे अन्यथानुपपन्नामेव प्रयोजकम्, न रूप्यं न च पाश्चरूप्यमिति ध्येयम्। ७ कारिफेयं
] म 'सम्प्रतिपन्नेषु' 12 प्रा मु 'सहस्र शतन्यायेन'। 3 मु 'अन्यभानुपपत्त्युपलक्षणमिति' पाठः । 4 ए 'सवैकान्ताल्लक्षणमस्तु' पाठः । म [ष- 'सबैकान्तलक्षणमस्तु' इति पाठः ।