________________
-
-
३. परोक्ष-प्रकाशः ४६. यद्यपि सम्प्रतिपन्नमंत्रीपुत्रेषु श्यामत्वमैत्रीतनयत्वयोः सहभावोऽस्ति तथापि नासो नियतः । मंत्रीतनयत्वमस्तु श्यामत्वं भाऽस्तु इत्येवंरूपे विपक्षे बाघकाभावात् । विपक्षे बाफप्रमाण. बलात्खलु हेतुसाध्ययोाप्तिनिश्चयः1 । व्याप्तिनिश्चयतः सहभावः क्रममावो वा । “सहक्रममावनियमोऽविनाभावः" [परीक्षा ३-१६] इति वचनात् । 'विवादाध्यासितो वृक्षो भवितुमर्हति शिशपात्यात् । या या शिशपास स वृक्षः, यथा सम्प्रतिपन्न इति। प्रत्रहि हेतुरस्तु साध्यं मा भूदित्येतस्मिन् विपक्षे सामान्य-विशेषभावभङ्गप्रसङ्गोगामि वृक्षत्वं हिमाद्विशेष! न हि विशेष: सामान्याभावे सम्भवति। न चवं मंत्रीतनयत्वमस्तु श्यामत्वं माऽस्तु इत्युक्ते किञ्चिबाधकमस्ति । तस्मान्मैत्रीतनयत्वं हेत्वाभास एव । तस्य2 तावत्पक्षधर्मत्वमस्ति, पक्षीकृते
१ नियमेन वर्तमानः । २ व्यभिचारशङ्कायाम् । ३ तन्निवर्तकानुकूलतर्काभावात् । अवायम्भाव: 'हेतुरस्तु साध्यं माऽस्तु' इत्येवं व्यभिचारशङ्कायां सत्यां यदि तन्निवत्तक 'यदि साध्यं न स्यासहि हेतुरपि न स्यात् वह्वयमावे घूमाभाववत्' इत्येवंभूतं विपक्षनाषक प्रमाणमस्ति तदाऽसौ हेतुः सद्धेतुर्भवति, विपक्षबाषकप्रमाणाभावे च न सहेतुः, तथा च 'मैत्रीसनयस्वमस्तु श्यामत्वं मास्तु' इत्यत्र ग्यामत्वाभावे मैत्रीसनयत्वस्यासत्वापादने न खलु यदि श्यामस्व न स्यात्तहि मंत्रीतनयत्वमपि न स्यात्' इत्येसंभूतं किञ्चिद्विपक्षवाषक वर्तते, यतः गर्भस्थे मैत्रीतनये मैत्रीतनयत्वस्य सत्त्वेऽपि श्यामत्वस्य सन्दिग्धत्वादिति । ४ पूर्वोक्तमेव स्पष्टयति विवावाम्यासित्तेत्यादिना ।
नियमः। 24 'तत्र तावत्प' पाठः ।