________________
न्याय-दीपिका
पाञ्चाप्ययोबौद्ध-योगाभिमतयोरतिव्याप्तेरलक्षणत्वम् । तथा हि-परिदृश्यमानेषु पञ्चसु मैत्रीपुत्रेषु श्यामतामुपलभ्य तद्गर्भगतमपि। विवादापन पक्षीकृत्य श्यामत्वसाधनाय प्रयुक्तो मैत्रीतनयत्वाख्या हेतुराभास इति तावत्प्रसिद्धम्, अश्यानत्वस्थापि तत्र सम्भावितत्वात्। तत्सम्भावना च श्यामत्वं प्रति मैत्रीतनयत्वस्यान्यथानुपपत्त्यभावात्' । 'तदभावाश्च सहक्रमभावनियमाभावात् ।
४८. यस्य हि? धर्मस्य येन धर्मेण सहभावनियमः स तं गमयति । यथा शिशरात्वस्य वृक्षत्वेन सहभावनियमोऽस्तीति शिशपात्वं हेतुर्वक्षत्वं गमयति । यस्य च3 क्रमभावनियमः स तं ममयति । यथा धूमस्याग्न्यनन्तरभावनियमोऽस्तीति धूमोनि गमयति 1 "न हि मैत्रीतनयत्वस्य हेतुत्वाभिमतस्य श्यामत्वेन साध्यत्वाभिमतेन सहभावः क्रमभावो वा 4नियमोऽस्ति, येन मैत्रीतनयत्वं हेतुः श्यामत्वं साध्यं गमयेत् ।।
१ लक्षणाभासत्वम् । २ मैत्रीगर्भस्थम् । ३ असद्धेतुः । ४ गर्भस्थे मैत्रीतनये । ५ न हि श्यामत्वेन सह मैत्रीतनयत्वस्यान्यथानुपपत्तिरस्ति, गौरत्वेनापि तस्य वृत्तिसम्भवात् । ६ अन्यथानुपपत्त्यभावः, अन्यथानुपपत्तिरविनाभावः । स च द्विविधः-सहभावनियमः क्रमभावनियमश्च । तदेतद्द्विविधस्याप्यवाभावादिति भावः । ७ ननु मंत्रीतनयत्वस्य श्यामत्वेन सहभावः क्रमभावो वा नियमोऽस्तु, तथा च मंत्रीतनयत्वं श्यामत्वं गमयेदेव इत्याशायामाह नहोत्यादि ।
1 द प प्रा तद्भार्यागर्भगतमपि' पाठः । 2 दहि' नास्ति । 3 मा म 'यस्य यत्क्रमभावनियमः' / 'यस्य येन क्रम...'। 4 मा पम प्रतिषु 'नियतो' पाठः ।