________________
३. परोक्ष-प्रकाश:
देति । जल पासपोहोकार निदेशी गथा-'शब्दोऽनित्यो भवितुमर्हति कृतकत्वात्, यद्यत्कृतकं तत्तदनित्यं यथा घटः, यद्यदनित्यं न भवति तत्तत् कृतकं न भवति। यथाऽऽकाशम्, तथा चायं कृतकः, तस्मादनित्य एवेति'। अत्र शब्द 'पक्षीकृत्यानित्यत्वं साध्यते । तत्र कृतकत्वं हेतुस्तस्य पक्षीकृतशब्दधर्मत्वात्पक्षधर्मत्वमस्ति । सपक्षे घटादो वर्तमानत्वाद्विपक्षे गगनादवदर्तमानत्वादन्वयव्यतिरेकित्वम् ।
४३. पक्षसपक्षवृत्तिविपक्षरहितः केवलान्वयी । यथा-'प्रदष्टादयः कस्यचित्प्रत्यक्षा अनुमेयत्वात्, यद्यदनुमेयं तत्तत्कस्यचित्प्रत्यक्षम्, यथाऽनन्यादि' इति । अत्रादृष्टादयः पक्षः, कस्यचित् प्रत्यक्षत्वं साध्यम्, अनुमेयत्वं हेतुः अग्न्याद्यन्वयदृष्टान्त: । अनुमेयत्वं हेतुः पक्षीकृतेऽदृष्टादौ वर्तते, सपक्षभूतेऽग्न्यादौ वर्तते । तत: पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति । विपक्षा: पुनरत्र नास्त्येव, सर्वस्यापि पक्षसपक्षान्तर्भावात्तस्माद्विपक्षाद्वपावृत्तिर्नास्त्येव । 'व्यावृत्तेरवधिसापेक्षत्वात्, अवधिभूतस्य च विपक्षस्थाभावात् । शेषमन्वयव्यतिरेकिवद् द्रष्टव्यम् ।
१ मिणं कृत्वा । २ श्यावृत्तिब यघिमपेक्ष्य भवति, अवधिकच विपक्षः, स पात्र नास्त्येव । ततोऽवधिभूतयिपक्षाभावान्न विपक्षच्यावृष्टि केवलान्वयिनि हेताविति भावः ।
1 मा 'यत्कृतकं तदनित्यं यथा घटः मदनित्यं न भवति तत्कृतकं न भवति' इति पाठः । 2 व पक्षान्तर्भावा-' पारः ।