________________
२५
३. परोक्ष-प्रकाशः पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षायावृत्तिः अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति पञ्च रूपाणि । 'तवाद्यानि' श्रीयुक्तलक्षणानि । साध्यविपरीतनिश्चायकप्रबलप्रमाणरहितत्वमबाधितविषयत्वम् । तादृशसमबलप्रमाणशून्यत्वमसत्प्रतिपक्षत्वम् । तद्यथा -पर्वतोऽयमग्निमान्, धूमवत्वात्, यो यो धूमवानसा।वसावग्निमान्, यथा महानसः, यो योऽग्निमान्न भवत्ति स धमवान्न भवति, यथा महाह्रदः, तथा चायं धूमवांस्तस्मादग्निमानेवेति । 'अत्र ह्यग्निमत्त्वेन माध्यधर्मेण विशिष्टः पर्वतास्यो धर्मी पक्षः, घूमवत्त्वं हेतुः । तस्य च तावत्पक्षधर्मत्वमस्ति, पक्षीकृते पर्वते वर्तमानत्वात् । सपक्षे सत्त्वमप्यस्ति, सपक्षे महानसे वर्तमानत्वात् । 'ननु केषुचित्सपक्षेषु धूमबत्त्वं न वर्तते, अङ्गारावस्थापनाग्निमत्सु प्रदेशेषु धूमाभावात्, इति चेत् ; म ; सपक्षकदेशवृत्तेरपि हेतुस्वात्, सपक्षे सर्वत्रकदेशे वा वृत्तिहेतो: सपक्षे सत्त्वमित्युक्तत्वात्। विपक्षायावृत्तिरप्यस्ति, धूमवत्त्वस्य सर्वमहाह्रदादिविपक्षव्यावृत्तेः । 'अबाधितविषयल्लमप्यस्ति, घूमवत्त्वस्य हेतोर्यों विषयोऽग्निमत्वास्यं साध्यं तस्य प्रत्यक्षादि प्रमाणाबाधितत्वात्। असप्रतिपक्षत्वमप्यस्ति, अग्निरहितत्वसाधकसमबलप्रमाणासम्भ
१ तेषु । २ पक्ष वर्मत्वादीनि । ३ वह्नयनुमाने । ४ घूमवत्त्वस्य । ५ यौगं प्रति परः शङ्कते नन्विति । ६ धूमवत्वै पक्षधर्मत्वादित्रयं समर्थ्याबाधितविषयत्वमसत्प्रतिपक्षत्वं चापि शेपरू पद्वयं समयति प्रकरणकारोबाधितेत्यादिना । ७ आदिपदादनुमानागमादिग्रहणम् । ८ न विद्यते
1 म मु प्रतिषु 'स स' इति पाठः । 2 मा म म "विपक्षावया' इति पाठः ।