________________
३. परोक्ष-प्रकापाः [बौद्धाभिमलत्ररूप्यहेतुलक्षणस्य निरासः] 5 ३७. इत्थमन्यथानुपपत्त्येकलक्षणो हेतुरनुमितिप्रयोजक इति 'प्रथितेऽप्याहते। मते तदेतदविनान्येऽन्यथाऽप्याहुः । तत्र तावत्ताथागताः 'पक्षधर्मत्वादित्रितयलक्षणाल्लिङ्गादनुमानोत्थानम्' इति वर्णयन्ति । तथा हि-पक्षधर्मत्वम्, सपक्षे सत्त्वम्, वि. पक्षाद्वधावत्तिरिति हेलोस्त्रीणि म्पाणि । तत्र साध्यधर्मविशिष्टो धर्मी पक्षः, यथा धुमध्वजानुमाने पर्वतः, तस्मिन् व्याप्य वर्तमानत्वं हेतोः पक्षधर्मत्वम् । साध्यसजातोयधर्मा धर्मी सपक्षः, यथा तव" महानसः तस्मिन् सर्वत्रकदेशे वा वर्तमानत्वं हेतोः सपक्षं सस्थम् । साध्यविरुद्धधर्मा धर्मी विपक्षः, यथा तत्रैव ह्रद:3, तस्मात्सर्वस्माद्
१ जनक इत्यर्थः । २ प्रसिद्ध । ३ सौगतादयः । ४ अरूप्यादिकम् । ५ अयमभिनायो बौद्धानान्–नान्यथानुपपत्तिनियमनिश्चयकलक्षणं साघनम्, अपि तु पक्षधर्मवादिरूपश्ययुक्तम्, तेनवासिद्धत्वादिदोषपरिहारात् । उक्तं च ।
हेलोस्त्रिावपि रूपेषु निर्णयस्तेन वर्णितः । प्रसिद्धविपरीतार्थव्यभिचारिविषमतः ॥
प्रमाणवा० १.१६ । 'हेतुस्त्रिरूपः । कि पुनम्त्ररूयम् पक्षधर्मत्वम्, सपक्षे सत्वम्, विपक्षे चासत्त्वमिति ।' न्यायप्रः पृ० १ । प्रश्न न्यायबिन्दुटी० पृ० ३१,३३ । वावन्याय० पृ.६० । तत्त्वसं० पृ. ४०४ इत्यापि दृष्टव्यम् । ६ घूमध्वजो वह्निः, धूमस्व तज्ज्ञापकत्वात् । ७ धूमध्दज्ञानुमाने । ८ हृदादिसर्वविपक्षात् ।
म मु 'अर्हतमते' पारः। 2 व प लक्षणलिङ्गा' इति पाठः। ३ मा म मु 'महाहृदः' इति पाठः ।