________________
न्याय-दीपिका । [वीतरागकथायामविकावयवप्रयोगस्यौचित्यसमर्थनम्]
३६. बीतरागकथायां तु प्रतिपाद्याशयानुरोधेन' प्रतिशाहेतू द्वाववयवी, प्रतिज्ञाहेतूदाहरणानि यः, प्रतिज्ञाहेतूदाहरणोपनयाश्चत्वारः, प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि वा पञ्चेति यथायोग2 प्रयोगपरिपाटी'। तदुक्तं कुमारनन्दिभद्दारकैः
"प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधत:"-[वादन्याय...] इति ।
तदेवं प्रतिज्ञादिरूपात्परोपदेशादुत्पन्नं' परार्थानुमानम् । रामाला
परोपदेशसापेक्ष साधनात्साध्यवेदनम्। श्रोतुर्यज्जायते सा हि परार्थानुमितिर्मता ॥[ ] इति ।
तथा च रवार्थ परार्थं चेति द्विविधमनुमानं साध्याविनाभाव. निश्चर्यकलक्षणाद्धेतोरुत्पद्यते ।
१ प्रतिपाद्याः शिष्यारतेषामाशयोऽभिप्रायरतदपेक्षया । २ परार्थानुमानवाक्यावयदवयनसमुदायः प्रयोगपरिपाटी । अत्राय भावः-वीतरागकथायामश्यवप्रवोगस्य न कश्चिन्नियमः, तत्र यावद्भिः प्रपोगः प्रतिपायो बोवनीयो भवति तावन्तस्ते प्रयोक्तव्याः । दृश्यन्ते खलु केचिद् द्वाम्यामवश्वाम्यां प्रकृतार्थ प्रतिपद्यन्ते, केचन थिभिरवयवः, अपरे चतुभिरवयवः, अन्ये पञ्चभिरवयवः, प्रत उक्तं 'प्रयोगपरिपाटी तु प्रतिपाद्यानुरोषतः' इति । अत एव च पगनुग्रहप्रवृत्त: शास्त्रकारः प्रतिपाद्यावबोधनदृष्टिभिस्तथैव प्ररूपणात् । व्युत्पन्न प्रजानां तु न तथा नियमः, तेषां कृते तु प्रतिज्ञाहेतुरूपाययवद्वयस्यैव पर्याप्तत्वादस्ति तादृनिममः । ३ ज्ञानम् । ४ साध्यज्ञानम् ।
{द 'वा' नास्ति । 2 म मु'यथायोग्य पाठः ।