________________
३. परोम-प्रकाश
१ हेल्लोयमेवानुमानस्य परार्यानुमानस्याङ्गम् । वाद इति शेषः । एवकारेणावधारणपरेण गोदाहरणादिकमिति सूचित' भवति । 'व्युत्पन्नस्मैव हि वादाभिकारः, प्रतिज्ञाहेतुप्रयोगामात्रेणेवोदाहरणादिप्रतिपाद्यस्यास्य गम्यमानस्य व्युत्पन्नेन ज्ञातुं शक्यत्वात् । गम्यमानस्याऽप्यभिषाने पोनरुक्त्यप्रसङ्गादितिः ।
३५. 'स्यादेतत्, प्रतिक्षाप्रयोगेऽपि पीनरुक्त्यमेव, तदभिघयस्य पक्षस्यापि 'प्रस्तावादिना गम्यमानस्वात् । तथा च लिङ्गअचन लक्षणो हेतुरेक एवं वादे प्रयोक्तव्य' इति वदन् बोदपशुरात्मनो "दुर्विदग्धत्व4 मुद्घोषयति" ।' हे मात्रप्रयोगे व्युत्पास्यापि साध्यसन्देहानिवृत्तेः । तस्मादवश्यं प्रतिज्ञा प्रयोक्तव्या। तदुक्तम्-"साध्यसन्देहापनोदार्थ गम्यमानस्यापि पक्षस्य वचनम्' परीक्षा ३-३४] इति । तदेवं वादापेक्षया परार्थानुमानस्य प्रतिज्ञाहेतुरूपमवयवद्वयमेव, न न्यूनं न चाधिमिति स्थितम् । "प्रपञ्चः पुनरक्यवविचारस्य पत्रपरीक्षायामीक्षणीयः ।
१ इतरव्यवच्छेदकेन । २ शापितम् । ३ वादकरणसमयस्यव वक्तुः । ४ वचने । ५ पुनर्वचनं पौनक्रयम् । ६ सौगत: शहते। ७ प्रतिज्ञायाः प्रतिपाद्यस्य । ५ प्रकरणव्याप्तिप्रदर्शनादिना । ६ प्रतिज्ञामन्तरेण केवलस्प हेतोरेव प्रयोगः करणीयः, 'हेतुरेव हि केवलः' इति धर्मकीतिवचनात् । १० जाडयम् ११ प्रकटयति ! १२ साध्यस्य सन्देहो न निवर्तते । १३ साध्यसंशनिवृत्त्यर्थम्। १४ विजिगीषुकथामाश्रित्य । १५ विस्तरः । १६ वृष्टव्यः ।
प प्रत्योः 'प्रतिमाहेतुमाने' इति पाठः । 2 में 'इति' नास्ति । 38 'वचन'नास्ति 14 पमु'दुर्विदापता' पाठः। 5 'नाधिक इति मु प्रतिपाठः ।