________________
न्याय-दीपिका पर्यन्तं परस्परं प्रवर्तमानो वाग्व्यापारी वीतरागकथा' । तत्र' विजगीषुकथा वाद इति चोच्यते । केचिद्वीतरागकथा वाद इति कथयन्ति, तत्पारिभाषिकमेव। न हि लोके गुरुशिष्यादिवाग्व्यापारे यादव्यवहारः, विजिगीषुवाग्व्यवहार एव वादसिद्धेः); यथा स्वामिसमन्तभद्राचार्यः सर्वेसर्वथैवान्तवादिनो वादे जिता इति । तस्मिश्च वादे परार्थानुमानवाक्यस्य प्रतिज्ञा हेतुरित्यवयवद्वयमेवोपकारकम्, नोदाहरणादिकम् । तद्यथा-लिंगवचनात्मकेन हेतुना तावदवश्यं भवितव्यम्, लिङ्गज्ञानाभावेऽनुमितेरेबानुदयात् । पक्षवचनरूपया प्रतिज्ञयाऽपि भवितव्यम्, अन्यथाऽभिमतसाध्यनिश्चयाभावेसाध्यसन्देहवतः श्रोतुरनुमित्यनुदयात् । तदुक्तम्-"एतद्वय मेवानुमानाङ्गम् [परीक्षा ३.३७इति । अयमर्थ:-एतयोः प्रतिज्ञा
१ जयपराजयाभिप्राय रहिता तत्त्वजिज्ञासया नियमाणा तस्वचर्चा वीतरागकथा इति भावः । २ उभवामध्ये । ३ यथोक्तम्
प्रत्यनीकव्यवच्छेदप्रकारेणंव सिद्धये । वचनं साधनादीनां वारः सोऽयं जिगीषतोः ।। न्यायविका० ३८२ ।
४ नैयाधिकाः-'गादिभिः सह वाद: x x x गुवादिभिः सह वादोपदेशा.. यस्मादयं तत्त्व बुभुत्सुगुर्वादिभि: राह त्रिविधं (अनधिमततत्त्वावबोधग, संगनिवृत्तिम, अध्यचसिताभ्यभृज्ञानम् । फलमाकाङ्क्षन् वादं करोति ।'–न्यायवा० १० १४६ । यत्र वीलरामा वीतरागणव सह तत्त्वनिर्णयार्थं साधनोपालम्भी करोति सा नीताकया वादसंज्ञोच्यते ।' -न्यायसार पृ० १५ १ ५ कथनमात्रम्, न त वास्तधिकम् । ६ प्रतिज्ञाया प्रभावे 1 ७ एतद्द्यमेवानुमानाङ्ग नादाहरणम्' इत्युपलब्धसूत्रपाठः ।
I र 'सिद्धेः' पाठः । 2 व सर्वे' पाठो नास्ति ।