________________
३. परोक्ष-प्रकाश:
७६ चायं धूमवानिति । हेतुपूर्वक पुन:1 पक्षवचनं निगमनम्', तस्मादग्निमानेवेति । एते पञ्चावयवाः परार्थानुमानप्रयोगस्य । 'तदन्यतमाभावे वीतरागकथायां विजिगीषुकथायां च2 नानुमितिरुदेतीति नैयायिकानामभिमतिः ।
३३. तदेतदविमृश्याभिमननम् ; वीतरागकथायां4 प्रतिपाद्याशयानुरोधेनावयवाधिक्येऽपि विजिगीषुकथायां प्रतिज्ञाहेतुरूपावयवद्वयेनैव पर्याप्तेः किमप्रयोजनैरन्य रवयवः ।
[विजिगीषुकथायां प्रतिज्ञाहेतुरूपाववयद्वयस्यैव सार्थक्यमिति]
३४. तथा हि-वादिप्रतिवादिनोः स्वमतस्थापनार्थं जयपराजयपर्यन्तं परस्परं प्रवर्त्तमानो 'वाग्व्यापारो विजिगीषुकथा । गुरुशिष्याणां विशिष्टविदुषां वाऽ रागद्वेषरहितानां तत्त्वनिर्णय
१ द्विविवे हेतो द्विविवे च दृष्टान्ते द्विविधे चोपनये तुल्यमेव हेत्वपदेशेन पुनः साधर्योगसंहरणान्निगमनम् न्यायकलि पृ० १२ । २ ते इमे प्रतिज्ञादयो निगमनान्ताः पञ्चावयवाः स्वप्रतिपत्तिषत्परप्रतिपत्ति मुत्पादयितुमिच्छता यथानिदिष्टक्रमकाः प्रोक्तव्याः । एतदेव साधनवाक्यं परार्थानुमानमाचक्षते ।' ---ग्यायकलि. पृ० १२ । ३ प्रतिज्ञादीनामेकतमस्याऽप्यभावे । ४ 'वादिप्रतिवादिनो: पक्षप्रतिपक्षपरिग्रहः कया । सा द्विविधा-वीतरागकथा विजिगीषकथा चेति । ---न्यायसार पृ० १५ । ५ वचनप्रवृत्तिः ।
1 मुक्तिप्रती 'पुनः नास्ति । 2 प्रा म मु प्रतिषु 'वा' पाठः । 3म मु प्रतिषु 'मतम्'। 4 व ५ प्रत्यो: 'वीतरागकथायां तु इति पाठः । 57 'वा' पाठो नास्ति ।