________________
७६
न्याय-दीपिका
दाहरन्ति च।। तद्यथा-पक्षवचनं प्रतिज्ञा, यथा-पर्वतोऽयमग्नि मानिति । साधनत्वप्रकाशार्थ2 पञ्चम्यन्तं लिङ्गवचनं हेतु:, यथाचूमवत्वादिति । व्याप्तिपूर्वकदृष्टान्तवचनमुदाहरणम्, यथा-यो यो धूमवानसावसावग्निमान्, यथा महानस इति साधोदाहरणम् । यो योऽग्निमान्न भवति स स धूमवान भवति, यथा महाह्रद इति बोदाहरणम् ! पूनरोदाहरणभेदे हेतोरन्वयव्याप्तिः प्रदश्यते, द्वितीये तु व्यतिरेकव्याप्तिः । तद्यथा-अन्वयव्याप्तिप्रदर्शनस्थानमन्वयदृष्टान्तः', व्यतिरेकव्याप्तिप्रदर्शनप्रदेशो व्यतिरेकदृष्टान्तः । एवं दृष्टान्तद्वैविध्यात्तद्ववचनस्योदाहणस्यापि वैविध्यं बोध्यम् । अनयोश्चोदाहरणयोरन्यतरप्रयोगेणैव पर्याप्तत्वादितराप्रयोगः। दृष्टान्तापेक्षया पक्षे 3 हेतोरुपसहारवचनमुनयः", तथा
१ साधनसद्भावपूर्वकसाध्यसद्भावप्रदर्शनमन्वयध्याप्तिः । २ साध्याभावपूर्वकसाधनाभावप्रदर्शन स्पतिरेकव्याप्तिः । ३ 'यत्र प्रमीज्यभयोजकभावेन साध्यसाधनयोधर्मपारस्तित्वं च्याप्यते स साघम्यदृष्टान्तः । यद्यत् कुतकं तत्तदनित्यं दृष्ट म्, या घट इनि'-न्यायकलि. पृ० ११ । ४ 'यत्र साध्याभावप्रयुक्तो हेत्वभावः ख्याप्यने म वैघHदृष्टान्तः । यानित्यत्वं नास्ति तत्र कृतकत्वमपि नास्ति, यथा आकाम इति (न्यायकलि. पृ० ११) एतदुभयमधिकृत्य कश्चिदुक्तम्-'साध्येनानुगमो हेतोः साध्याभावे च नास्तिता इति' (न्यायवासिक पृ० १३७) । ५. 'साधम्यवघम्दाहरणानुसारेण तथेति, न तथेति वा साध्यमिणि हतारूपसंहार उपनय:न्यायकलि० पृ. १२ ।
1 मुद्रितप्रतिषु 'च' पाठो नास्ति। 2 मुम 'प्रकाशनार्थ' । म 'पक्षहेतो' ।