SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ न्याय-दीपिका [परानुमानप्रयोजकवाक्यस्य प्रतिज्ञा-हेतुरूपाययबद्यस्य प्रतिपादनम्] ३१. तस्यतस्य परार्थानुमानस्याङ्गसम्पत्तिः स्वार्थानुमानवत् । परार्थानुमानप्रयोजकस्य च वाक्यस्य ! गाबवयवो-प्रतिज्ञा हेतुश्च । तत्र धर्म-धर्मिसमुदायरूपस्य पक्षस्य वचनं प्रतिज्ञा। यथा-पर्वतोऽयमग्निमान्' इति । साध्याविनाभाविसाधनवचनं हेतुः । यथा-'घूमवत्त्वान्यथानुपपत्तेः' इति तथैव घूमवत्त्वोपपत्तेः' इति वा । अनयोर्हेतुप्रयोगयोरुक्तिवैचिश्यमात्रम् । पूर्वत्र धूमवत्त्वान्यथानुपपत्तेरित्ययमर्थः-धूमवत्त्वस्याग्निमत्त्वाभावेऽनुपपत्तेरिति निषेधमुखेन कथनम्। द्वितीये' तु धूमवत्त्वोपपत्तेरित्ययमर्थः-अग्निमत्वे सत्येव बमवत्वस्योपपत्तरिति विधिमुखेन प्रतिपादनम्।। अर्थस्तु: न भिद्यते, "उभयत्राऽप्यविनाभाविसाधनाभिधानाविशेषात् । अतस्तयोर्हेतुप्रयोगयोरन्यतरएव वक्तव्यः, उभयप्रयोगे पौनरुक्त्यात् । तथा चोक्तालक्षणा प्रतिज्ञा, एतयोरन्यतरो हेतुप्रयोगश्चेत्यययबद्वयं परार्थानुमानवाक्यस्येति स्थितिः, व्युत्पन्नस्य श्रोतुस्तावन्मात्रेणेवानुमित्युदयात् । श्रीहेमचन्द्राचायोऽम्याह—'यथोक्तसाधनाभिधानजः परार्यम्' 'वचनमुपपारात्'-प्रमागमो० २,१, १-२ । १ केवलं कथन भेदः । २ हेतुप्रयोगे । ३ हेतुप्रयोगे । ४ हेतुप्रयोगदयेऽपि । ५ एकतर एव । ६ प्रतिज्ञाहेतुतयेनैव । 1६ प प्रत्यो, 'च वाक्यस्य' इति पाठो नास्ति । 2 वप प्रत्योः 'च' पाठः । ३ मा मु म प्रतिषु 'प्रतिपादनम्' इति पाउः। 4 मा मुम प्रतिषु 'कथनम्' पाठः । 5 'अर्यतस्तु' इति व प्रतिपाठः ।
SR No.090311
Book TitleNyayadipika
Original Sutra AuthorDharmbhushan Yati
AuthorDarbarilal Kothiya
PublisherVeer Seva Mandir Trust
Publication Year
Total Pages372
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy