________________
७४
न्याय-दीपिका
सिद्ध:, अपि तु प्रतीतिभात्रसिद्ध इति विकल्पसिद्धोऽयं धर्मी । तथा स्वरविषाणमपि नास्तित्वसिद्धेः प्राविकल्पसिद्धम्' । 'उभयसिद्धो धर्मी यथा-रिणामी उत्पा
हि वर्तमानः प्रत्यक्षगम्यः भूतो भविष्यश्च विकल्पगम्यः । स सर्वोऽपि धर्मीति प्रमाण-विकल्पसिद्धो वर्मी । प्रमाणोभयसिद्धयोर्धमिणोः साध्ये कामचारः " । विकल्पसिद्धे तु धर्मिणि 'सत्तासत्तयोरेव साध्यत्वमिति नियमः । तदुक्तम्- “विकल्पसिद्धे "तस्मिन् सत्तेतरे' साध्ये" [ परीक्षा २-२८ ] इति ।
ני
२८. तदेवं परोपदेशानपेक्षिणः । साधनाद् "दृश्यमानाद्धमिनिष्ठतया साध्ये यद्विज्ञानं तत्स्वार्थानुमानमिति स्थितम् । तदुक्तम्
१ सम्भावनामात्रसिद्धः सम्भावना प्रतीतिर्विकल्प इत्येकार्थकाः । २ तथा चाह: श्रीमाणिक्यनन्दिनः 'विकल्पसिद्ध तस्मिन् सत्तेत्तरे साध्ये' 'अस्ति सर्वशो नास्ति खरविषाणम्' – परीक्षा० २ २८, २६ । ३ प्रमाण विकल्पसिद्धः । ४ ग्रत्र वाब्दत्वेन निखिलशब्दानां ग्रहणम्, तेषु वत्तंमानशब्दाः श्रावणप्रत्यक्षेण गम्याः सन्ति भूता भविष्यन्तश्च प्रतीतिसिद्धाः सन्ति, श्रतः शब्दस्योभयसिद्धधमित्वमिति भावः । ५ अनियमः । ६ सत्ता अस्तित्वम् श्रसत्ता नास्तित्वम् ते द्वे एवात्र विकल्पसिद्धे धर्मिणि साच्ये भवतः, 'अस्ति सर्वज्ञ' इत्यादी सत्ता साध्या, 'नास्ति खरविषाणम्' इत्यादी 'चासत्ता साध्या इत्येवं नियम एव न प्रमाणोभय सिद्धषमवत्कामचारस्तत्रेत्यदसेयम् । ७ धर्मिणि । सत्तासत्तं । भवत इति क्रियाध्याहारः । १० एतत्पदप्रयोगात् साधनस्य वर्तमानकालिकत्वं प्रकटितं बोद्धव्यम्, तेन्द भूतभाविघूमादेर्भूतभाविवह्न्यादिसाध्यं प्रति साघनत्वं निरस्तम् ।
1 'परोपदेशानपेक्षेण' इति प्रा प्रतिपाठः |
--