________________
७.
३. परोक्ष-प्रकाशः 'विवक्षाया 'वैचित्र्यात् । 'पूर्वत्र हि धमिधर्मभेदविवक्षा, उत्तरत्र तु! 'तत्समुदायविवक्षा । स एष धमित्वेनाभिमतः प्रसिद्ध एव । तदुक्तमभियुक्त:--"प्रसिद्धो धर्मी" [परीक्षा ३-२७] इति ।
[घमिणस्विधा प्रसिद्धेनिरूपणम्] ६२६. प्रसिद्धत्वं च र्मिणः क्वचित्प्रमाणात, क्वचिद्विकल्पात', क्वचित्प्रमाण-विकल्पाभ्याम् । तत्र 'प्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम् ।
२७. "प्रमाणसिद्धो धर्मी यथा-धूमवत्वादग्निमत्त्वे साभ्ये पर्वतः । स खलु प्रत्यक्षेणानुभूयते । विकल्पसिद्धो धर्मी यथाअस्ति सर्वज्ञः सुनिश्चितासम्भवद्बाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः । अथवा, खरविषाणं नास्तीति नास्तित्वे साध्ये खरविषाणम् । सर्वज्ञो ह्यस्तित्व सिद्धेः प्राग् न प्रत्यक्षादिप्रमाण
१ प्रतिपादनेच्छायाः। २ भिन्नत्वात् । ३ अङ्गत्रयप्रतिपादने । ४ अङ्गत्यवचने । ५ धर्ममिणोरक्यविवक्षा, यतो हि तत्समुदायस्य पक्षस्ववचनात् । ६ अनुमाने । ७ प्रतीतेः । ८ प्रत्यक्षादीनामन्यतमेन प्रमाणेनाचघृतस्वम्, निश्चितत्वमित्यर्थः । ९ प्रमाणविकल्पोभयविषयत्वम् । १. उक्तानां त्रिविधर्मिणां क्रमेणोदाहरणानि प्रदर्शयति प्रमाणेति । ११ पर्वतः ।
1 र प्रती 'तु' स्थाने 'च' पाठ: + 2 'प्रनिदिचतप्रामाण्यप्रत्यय' इति व प्रतिपाठः।