________________
न्याय-दीपिका
त्वादेरपि साध्यत्वप्रसङ्गात् । अनभिप्रेतस्य साध्यत्वे त्वतिप्रसझात्' । प्रसिद्धस्य साध्यत्वे पुनरनुमा नवयात् । तदुक्तं न्यायविनिश्चये
"साध्यं शक्यमभिनतमप्रसिद्ध ततोऽपरम् । साध्याभासं विरुद्धादि साधनाविषयत्वतः" ।।१७२।। इति। ।
२१. अयमर्थ:2–यच्छक्यमभिप्रेतमप्रसिद्धं तत्साध्यम् । ततोऽपरं साध्याभासम् । किं तत्? विरुद्धादि । विरुद्धं प्रत्यक्षादिवाधितम् । प्रादिशब्दादनभिप्रेतं प्रसिद्ध चेति । कुत एतत् ? साधनाविषयत्वत:--साधनेन गोचरीक मशक्यत्वा दित्यकलङ्कदेवानाममिप्रायलेशः। तदभिप्रायसाकल्यं तु 'स्यादविद्या
१ स्वेष्टसाधनायोगात । अत एवाह—'अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं मा भूदितीष्टाबाधितवचनम्'-परीक्षा० ३-२२ । २ साघनाह हि साध्यम्, साधनं चासिद्धस्यव भवति न सिद्धस्य, पिष्टपेषणानुषङ्गात् । तथा चासिद्धस्थ साधनमेवानुमानफलम्. सिद्धस्य तु साध्यत्वे तस्य प्रागेव सिद्धत्वेनानुमानवैफल्यं स्पादेवेति भावः । यदुक्तं स्यावादविद्यापतिना... 'प्रसिद्धादन्यदसिद्धम्, तदेव साध्यम् । न प्रसिद्धम्. तत्र साधनवैफल्यात् । प्रसिद्धिरेव हि साधनस्य फलम्, सा च प्रागेव सिद्धति'--पायवि० वि० २, पृ० है । इ शक्यादिलक्षणात्साध्याद्विपरीतम् । ४ अभिप्रायस्य संक्षेपः। ५ अकलङ्कदेवानामभिप्रावलामस्त्यम् । ६ श्रीमद्वादिराजाचार्यो न्यायविनिएषयविवरणकारः।
14 व प्रत्योः 'इति' पाठो नास्ति । 2 'अस्पायमर्थः' इति पा प्रतिपाठः । 3 "कि तत् ?' इति व प प्रत्योर्मास्ति ।