________________
३. परोक्ष-प्रकाशः
६७
साधनविषयास्त 'तद्वल्लिङ्गज्ञानं व्याप्तिस्मरणादिसहकृत मनुभानोत्पत्तौ निबन्धनमित्येतत्सुसङ्गतमेव' |
१८. 'ननु भवतां मते साधनमेवानुमाने | हेतुनं तु साधनज्ञानं 'साधनात्साध्य विज्ञानमनुमानम्' इति वचनादिति चेत्; न; साघनादित्यत्र निश्चयपथप्राप्ताद्धूमादेरिति विवक्षणात् श्रनिश्चयपथप्राप्तस्य घुमादेः साधनत्वस्यैबाघटनात् । तथा चोक्तं तत्त्वार्थश्लोकवात्तिके2- "साधनात्साध्य विज्ञानमनुमानं विदुर्बुधाः" [१-१३-१२० ] इति । साधनाज्ज्ञायमानाद्भूमादेः साध्येऽन्यादौ लिङ्गिनि यद्विज्ञानं तदनुमानम् । श्रज्ञायमानस्य तस्य साध्यज्ञानजनकत्वे हि सुप्तादीनामगृहीतधूमादीनामप्यग्न्यादिज्ञानोत्पत्ति 3प्रसङ्गः । तस्माज्ज्ञायमानलिङ्गकारणकस्य' साध्यज्ञानस्यैव
-
१ स्मृत्यादिवत् । २ श्रस्मदीयं कथनं सुयुक्तमेव । ३ नैयायिकः शङ्कते नन्विति । ४ जैनानाम् । ५ पूर्व निरूपणान् । ६ अत एवाकलङ्क देवैरुक्तमू-
लिङ्गात्साध्याविनाभावाभिनिदोर्घकलक्षणात् ।
लिङ्गिधीरनुमानं तत्फलं हानादिबुद्धयः ॥ लघी ० का ० १२ :
७ साधनस्य ८ जनानाम् । ६ ज्ञायमानं लिङ्ग कारणं यस्य तज्ज्ञायमानलिङ्गकारणकं तस्य साध्याविना नावित्वेन निर्णीतसाधन हेतुकस्येत्यर्थः । अत्रेदं बोध्यम् - न हि वयं केवलं लिङ्गमनुमाने कारणं मन्यामहे अपि त्वन्यथानुपपन्नत्वेन निश्चितमेव, अज्ञायमानस्य लिङ्गस्यानुमितिकारणत्वासम्भवात् । अन्यथा यस्य कस्याप्यनुमितिः स्यात् । एतेन यदुक्तं नैयायिकैः
1 'अनुमान हेतु:' इति द प प्रत्योः पाठः । 2 ' श्लोकवातिके' इति मुतिप्रतिषु पाठः । 3 'ज्ञानोत्पाद' इति व प्रतिपाठः ।