________________
न्याय-दीपिका मिति लक्षणकथनम् । साधनाद्धमादेलिङ्गात्साध्येऽग्न्यादौ लिङ्गिनि यद्विज्ञानं जायते तदनुमानम्, 'तस्यैवाऽग्नाद्यव्युत्पत्तिविच्छित्तिकरणत्वात्। न पुनः साधनज्ञान मनुमानम्, 'तस्य साधनाट्युत्पत्तिविच्छेदमाशोपक्षीणत्वेन साध्याज्ञान निवत्तंकत्वायोगात् । 'ततो यदुक्तं नैयायिक:-लिङ्गपरामर्शोऽनुमानम्' [न्यायवा० १-१-५ अमृतम्] इत्यनुमानला गम् तदविनीतविलासितामात निवेदितं भवति । 'वयं त्वनुमानप्रमाणस्वरूपलाभे व्याप्तिस्मरणसहकृतो लिङ्गपरामर्श: कारणमिति मन्यामहे, स्मृत्यादि "स्वरूप लाभेऽनुभवादिवत् । तथा हि-धारणाख्योऽनुभवः स्पृती हेतुः । तादास्विकानुभव-स्मृती प्रत्यभिज्ञाने। स्मृतिप्रत्यभिज्ञानानुभवाः साध्य
१ साध्यज्ञानस्य॑व । २ अग्न्यादेरव्युत्पत्तिरमानं तस्या विच्छितिनिरासस्तस्करणत्वात् साध्यज्ञानस्य, अतः साधनाज्जायमानं साध्यज्ञानमेवानुमानमिति भावः । ३ सायनज्ञानस्य । ४ साधनसम्बाध्यज्ञाननिराकरणमात्रेजैव कृतार्थलेन । ५ यतश्च साधनशानं नानुमानं तत: । ६ 'प्रपरे तु मन्यन्ते लिङ्गपरामर्शोऽनुमानमिति । वयं तु पश्यामः सर्वमनुमानमनुमितेस्तन्नान्तरी यकत्वात् । प्रधानोपसर्जनाताविवक्षायां लिङ्गपरामर्श इत्ति न्याय्यम् 1 कः पुनरत्र न्यायः ? आनन्तर्गप्रतिपत्तिः । यस्माल्लिङ्गपरामर्शादनन्तरं शेषार्थप्रतिपत्तिरिति । तस्माल्लिङ्गपरामर्शो न्याय्य इति ।न्यायपा० पृ० ४५ । लिङ्गपरामर्शो लिङ्गज्ञानमित्यर्थः । ७ यदिनीत रविपारिभिविलसितं परिकल्पितमत एव तदयुक्तमिति भावः । ८ जनाः । & लिङ्गजानमनुमानस्योत्पत्तो कारणम्, न तु स्वयमनुमानमित्यर्थः । १. प्रादिपदेन प्रत्यभिज्ञादीनां ग्रह्णम् ।
1 'करणं' इति म प्रतिपाठः।