________________
३. परोक्ष-प्रकाशः
न्येकत्वेऽपि 'प्रतोति जनयन्तु, अजनसंस्कृतं चक्षुरिव 'व्यवहितेऽर्थे । न हि चक्षुषो व्यवहितार्थ। प्रत्यायन'सामर्थमस्ति, अजनसंस्कारवशात्तु तथात्वमुपलव्यम् । तद्वदेव स्मरणादि' सहकृतानीन्द्रियाण्येव दशाद्वयव्यापकमेकत्वं प्रत्याययिष्यन्तीति कि 'प्रमाणान्तरकल्पनाप्रयासेनेति । तदप्यसत्; सहकारिसहस्र"समवधानेऽप्यविषयप्रवृत्तेरयोगात्। मनमो हि अहनसंस्कार. दिः सहकारी स्वविषये रूपादावेव प्रवलको न त्वविषये रसादो। "अविषयश्च पूर्वोत्तरावस्थाव्यापकमेकत्वमिन्द्रियाणाम् । नस्मा. तत्प्रत्यायनाय "प्रमाणान्तरमन्वेषणीयमेव, “सर्वयापि विषयविशेषद्वारेण प्रमाणभेदव्यवस्थापनात् ।
१३. "किञ्च, अस्पष्टवेयं तदेवेदमिति प्रतिपत्तिः, तस्मादपि न तस्या: प्रत्यक्षान्तर्भाव इति । अवश्यं चैतदेवं 2विज्ञेयं चक्षु
-..
१ ज्ञानम् । २ अन्तरिते । ३ प्रत्यायनं ज्ञापनम् । ४ - वहितार्थप्रत्यायनसामर्थ्यम् । ५ दृष्टम् । ६ चक्षुग्वि । ७ प्रादिपदेन पूर्वानुभवस्य परिग्रहः 1 ८ ज्ञापयिाप्यन्ति । ६ प्रमाणान्तरं प्रत्यभिजानाश्यम् । १० मिलितेऽपि । ११ इन्द्रियाणामविषयमेव प्रदर्शयति अविषयश्चेति । १२ एकत्वज्ञापनाय 1 १३ प्रत्यभिजाननामकम् । १४ सर्ववपि दर्शनषु, सवरपि वादिभिः 1 स्त्र-स्वदर्शने विषयभेदमाश्रित्यव प्रमाणमैदम्यवरथा कृति भावः । १५ युक्त्यन्तरेण प्रत्यभिज्ञानस्य प्रत्यक्षान्त. भविं निराकरोति किञ्चेति—सपनाममिति हि कानमस्पष्टमेव, प्रत्यक्ष तु न तथा, सस्य स्माटत्वात् । ततोऽपि न तस्य प्रत्यक्षतर्भाव इति भावः ।
1 द 'थ' पारः । 2 द प 'जयं' पारः ।