________________
૪
न्याय-दीपिका
६ ५. नन्वेवं धारणागृहीत एव स्मरणस्योत्पत्ती 'गृहीतग्राहित्वादप्रामाण्यं प्रसज्यत' इति चेत्; न'; 'विषयविशेषसद्भावादीहादिवत् । यथा ह्यवग्रहादिगृहीतविषयाणामहादीनां विषयविशेषसद्भावात्स्वविषयसमारोपव्यवच्छेदकत्वेन प्रामाण्यं तथा स्मरणस्यापि धारणागृहीतविषयप्रवृत्तावपि प्रामाण्यमेव । धारपाया होदन्तावच्छिन्नो' विषयः, स्मरणस्य तु तत्तावच्छिन्नः । तथा च स्मरण स्वविषयास्तरणादिसपारिव्यवच्छेदकत्वात्प्रमाणमेब' । तदुक्तं प्रमेयकमलमार्त्तण्डे - "विस्मरणसंशयविपर्यासलक्षण: समारोपोऽस्ति तन्निराकरणाच्चास्या: स्मृतेः प्रामाण्यम्" [ ३-४] इति ।
P
वग्रहाद्यनुभवत्रयस्य व्यवच्छेदः श्रवग्रहादयो दृढात्मकाः । धारणा तु दृढात्मिका, ग्रतः सैव स्मृतेः कारणं नावग्रहादयः 'स्मृतिहेतुर्षारणा' इति वचनादिति भावः ।
१ गृहीतस्यैव ग्रहणात् २ प्रसक्तं भवति । ३ समाधत्तं नेति । ४ विषयभेदस्य विद्यमानत्वात् । तथा हि-' न खलु यथा प्रत्यक्ष विशदाकारतया वस्तुप्रतिभास: तथैद स्मृती, तत्र तस्या ( तस्य ) वैशद्याप्रतीतेः '
- प्रमेयक ० ३-४ 'किञ्च, स्मृतेः वर्तमानकालावच्छेदेनाधिगतस्यार्थस्यातीत कालावच्छेदेनाधिगते रवांशाधिगमोपपत्तेः । स्याद्वादर० ३-४ । यतो न गृहीतग्राहित्वं स्मरणस्येति भावः । ५ स्वेषामहादीनां विषयो ज्ञेयस्तस्मिन्नुत्पन्नो यः संशयादिलक्षणः समारोपस्तद्व्यवच्छेदकत्वेन तन्निराकारकत्वेन । ६ वर्त्तमानकालावच्छिन्नः । ७ भूतकालावच्छिन्नः । ८ प्रत्रेदमनुमानं बोध्यम् - स्मृतिः प्रमाणं समारोपव्यवच्छेदकत्वात्, यदेवं तदेवं यथा प्रत्यक्षम् समारोपव्यवच्छेदिका व स्मृतिः, तस्मात्प्रमाणमिति ।