________________
३. परोक्ष-प्रकाशः
[परोक्षप्रमाणं पञ्चधा विभज्य नस्य प्रत्ययान्तरसापेक्षत्वप्रतिपादनम्]
६३. 'तत् पञ्चविधम्-स्मृतिः, प्रत्यभिज्ञानम्, तर्कः, अनुमानार, समश्चेति । परिक्षारय प्रत्ययान्तरसापेक्षत्वेनवोत्पत्ति:2। तद्यथा-स्मरणस्य प्राक्तनानुभवापेक्षा, प्रत्यभिज्ञानस्य स्मरणानुभवापेक्षा, तकस्यानुभव-स्मरण-प्रत्यभिज्ञानापेक्षा, अनुमानस्य च लिङ्गदर्शनाद्य' पेक्षा, प्रागमस्थ शब्दश्रवण-सङ्केतग्रहणाद्यपेक्षा, प्रत्यक्षस्य तु न तथा स्वातन्त्र्येणवोत्पत्तेः । स्मरणादीनां प्रत्ययान्तरापेक्षा तु तत्र तत्र निवेदयिष्यते ।
स्मृतनिरूपणम्] ४. तत्र च4 का नाम स्मृतिः? तदित्याकारा प्रागनुभूतवस्तुविषया स्मृतिः, यथा स देवदत्त इति । अत्र हि प्रागनुभूत एव देवदत्तस्तत्तया प्रतीयते । तस्मादेषा प्रतीतिस्तत्तोल्लेखिन्यनुभूतविषया च, अननुभुते विषये तदनुत्पत्तेः । "तन्मूलं चानुभवो धारणारूप एवं अवग्रहाद्यनुभूतेऽपि धारणाया प्रभावे स्मृतिजननायोगात् । धारणा हि तथाऽत्मानं संस्करोति, यथाऽसावारमा कालान्तरेऽपि तस्मिन विषये ज्ञानमुत्पादयति । तदेतद्धारणाविषये समुत्पन्नं तत्तोल्लेखिज्ञानं स्मतिरिति सिद्धम् ।
१ परोक्षप्रमाणम् । २ भानान्नगवेक्षन । ३ प्रादिगदेन व्यानियहणादेरिग्रहः । ४ प्रत्ययानरनिरपेक्षत्वेनंद । ५ ययायमरम् ! ६ लदोवस्तता तया, 'तत्' शब्दोल्लेखेन । ७ स्मले. कारणम् । ८ एक्कारेणा
| प्रती 'अरय' इति पाठो नास्ति । 27 'नेः' पाकः 1 3 'प्रत्यक्ष' इति मुदितप्रतिषु पारः । 4 'च' इति मुद्रितप्रतिषु नास्ति ।