________________
३. परोक्षप्रकाश:
-:* :
। परोक्षप्रमाणस्य लक्षणम् | १. 'अथ परोक्षप्रमाणनिरूपणं प्रक्रम्यते । अविशदप्रतिभाम परोक्षम् । अत्र परोक्षं लक्ष्यम्, अविशदप्रतिभासत्वं लक्षणम् । यस्य ज्ञानस्य प्रतिभासो विशदो न भवति तत्परोक्षप्रमाणमित्यर्थः । देशद्यमुक्तलक्षणम्'। 'ततोऽन्यदवंशद्यमस्पष्टत्वम् । 'तदप्यनुभवसिद्धमेव ।
६२. सामान्यमाविषयत्त्वं परोक्षप्रमाणलक्षणमिति केचित'; तन्न ; प्रत्यक्षस्येव परोक्षस्यापि सामान्य विशेपात्मकवस्तुविषयत्वेन तस्य लक्षणस्याऽसम्भवित्वात् । तथा हि-घटादिविषयेषु प्रवर्त्तमानं प्रत्यक्षं प्रमाण तदगत सामान्याकार" घटत्वादिक "व्याक्त्ताकारं व्यक्तिरूपं। च "युगपदेव प्रकाशयदुपलब्ध",
१ द्वितीयप्रकाशे प्रत्यक्षप्रमाणं निरूप्यंदानीमिह परोक्षप्रमाणत्य निरू. पणं प्रारभते प्रति । २ स्पष्टत्वं वैशद्यं तदेव नमत्यमित्युक्तं पूर्व वैशद्यलक्षणम् । ३ वैशद्यान् । ४ विपरीतम् । ५ अवैशद्यपि, यथा नमत्यं स्पष्टत्वमनुभवासद्धं तथाऽस्पष्टत्वमनमल्यमप्यनुभवसिद्धमेवेति भावः । ६ बौद्धाः । ७ सामान्यमाविषयत्वमिति परोक्षलक्षणस्य । ८ असम्भवदोषदुष्टत्वात्, तथा च तस्य लक्षणाभासत्वमिति भावः । ६ परोक्षस्य सामान्यविशेषात्मकवस्तुविषयत्वमेव, न सामान्यमात्रविषयमिति प्रदर्शयनि सया होति । १० घटादिनिष्ठम् । ११ अनुगताकारम् । १२ अघटादिभ्यो व्यवच्छेदात्मकम् । १३ सहव । १४ अनुवृत्ताकारण्यावृत्ताकारोभयं विषयी
1'च विशेषरूप' इति प्रा प्रतिपाठ ।