________________
३७
२. प्रत्यक्ष - प्रकाशः
$ १६. 'नन्वस्तु केवलस्य पारमार्थिकत्वम् अवधि - मन:पर्यययोस्तु न युक्तम्, विकलत्वादिति चेत्; न; साकल्य-वैकल्ययोरत्र विषयोपाधिकत्वात्' । तथा हि सर्वद्रव्यपर्यायविषयमिति केवल सकलप् । अवधि-मनः पर्ययौ तु कतिपयविषयत्वाकिलो । नेतावता तयोः पारमार्थिकत्वच्युतिः । केबलवत्तयोरपि वैशन स्वविषये साकल्येन समस्तीति तावपि पारमार्थिकावेत्र' |
[ अवध्यादिवयरयातीन्द्रियप्रत्यक्षत्वप्रतिपादनम् ]
६ १७. कश्चिदाह-'प्रक्षं नाम चक्षुरादिकमिन्द्रियम्, तत् क्षयोपशमातिशयवशात्स्वविषये परिस्फुटत्वादिति ब्रूमः । श्रष्टस० पृ. ५० 1
१ अवधिमनः पर्ययोः पारमार्थिकत्वाभावमा शतं नन्विति । २ समाधत्तं नेति । श्रयं भावः - श्रत्र हि केवलस्य यत्सकलप्रत्यक्षत्वमवधिमनःगर्ययोश्च विकलप्रत्यक्षत्वमुक्तं तद्विषयकृतम् । सकलरूप्यरूपिपदार्थ विषयस्वेन केवलं सकलप्रमुच्यते, रिमात्रविषयत्वेन चावधिमनः पर्ययी विकलप्रत्यक्षौ कथ्येते । ततो न तयोः पारमार्थिकत्वहानिः । पारमार्थिकत्वप्रयोजकं हि स्वविषये साकल्येन वंशम्, तच्च केवलवत्तयोरषि विद्यत एवेति । ३ विषय उपाधिनिमित्तं ययोस्तो विषयोपाधिको विषयनिमित्तको तयोर्भावि स्वत्त्वं तस्मात् विषयोपाधिकत्वात् विषयनिमित्तकत्वादित्यर्थः । ४ पारमाथिकत्वाभावः । ५ एवकारेणापारमार्थिकत्वव्यवच्छेद:, तेन नापारमाथिको इति फलति । ६ 'यक्षमक्षं प्रतीत्योत्पद्यते इति प्रत्यक्षम् अक्षाणि इन्द्रियाणि -- प्रशस्त० भा० पृ. ६४ । ' अक्षमक्षं प्रति वर्त्तत इति प्रत्यक्षम् - न्यायप्र० पृ. ७ । ये खलु 'इन्द्रियव्यापारजनितं प्रत्यक्षं – ग्रक्षमक्ष प्रति यद्वत्तते तत्प्रत्यक्षमित्यभ्युपगमात् (सर्वार्थ० १-१२ ) इति प्रत्यक्षलक्षणमामनन्ति तेषामियं शङ्का, ते च वंशेषिकादयः ७ इन्द्रियमाश्रित्य |
-