________________
प्रमश
:
ज्ञानं धारणा' । यद्बशादुत्तरकालेऽपि स। इत्येवं स्मरणं जायते ।
६१२. ननु पूर्वपूर्वज्ञानगृहीतार्थग्राहकत्वादेतेषां धारावाहिकवदप्रामाण्यप्रसङ्ग इति चेत् ; न; विषयभेदेनागृहीतग्राहकत्वात् । तथा हिन्योऽवग्रहस्य विषयो नासाबोहायाः, य: पुनरीहाया नायमबायस्य, यश्चावायस्य नेष2 धारणाया इति परिशुद्धपतिभाना' सुलभमेवैतत् । 'तदेतदवग्रहादिचतुष्टयमपि यदेन्द्रियेण जन्यतेतदेन्द्रियप्रत्यक्षमित्युच्यते,यदापुनरनिन्द्रियेण तदाऽनिन्द्रियप्रत्यक्षं गीयते । इन्द्रियाणि स्पर्शन-रसन-वाण-चक्षुःश्रोत्राणिपञ्च, अनिन्द्रियं तु मनः। तद्वयनिमित्तकमिदं 'लोकसंव्यवहारे प्रत्यक्षमिति प्रसिद्धत्वात्सांव्यवहारिक प्रत्यक्षमुच्यते । तदुक्तं परीक्षामुखे3
१ 'स्मृतिहेतुर्धारणा, संस्कार इति यात्' लघी०स्वोपविवृ०का०६। ननु धारणायाः कथं ज्ञानत्वम्, संस्काररूपत्वात् ? न च संस्कारस्य ज्ञानरूपतेति चेत् ; तन्न ; उक्तमेव पूर्वम्-'ईहा-धारणयोरपि ज्ञानात्मकत्वम्, तदुपयोगविशेषात्' इति । 'अस्य ह्यज्ञानरूपत्वे ज्ञानरूपामृतिजनकत्वं न स्यात्, न हि सत्ता सत्तान्तरमनृवियति' (प्रमाणमी १-१-२६) । 'मवग्रहस्य ईहा अवायस्य च धारणा व्यापारविशेषः, न च चेतनापादानो व्यापारविशेष; अचेतनो युक्तोऽतिप्रसङ्गात्' (न्यायकुमु० पृ. १७३) । २ अवग्रहादीनाम् । ३ विशुद्धबुद्धीनाम् । ४ अवग्रहादिचतुष्टयस्यापि इन्द्रियानिन्द्रियजन्यस्वेन द्विवियत्वं प्रदर्शयति तवेतदिति ! ५ कथ्यते । ६ लोकस्य यः समीचीनो बाधारहितः प्रवृत्ति-निवृत्तिरूपो व्यवहारस्तस्मिन् । ७ संव्यवहारप्रयोजनक सौव्यवहारिकम्-अपारमाधिकमित्यर्थः ।
1 'स एवेत्येवं' द प प्रतिपाठः । 2 'नव' इति म प्रतिपाठः 4 3 मा ___ म मु प्रतिषु 'परीक्षामुखे' इति पाठो नास्ति ।