________________
२. प्रत्यक्ष प्रकाश:
३१
[१-१ तथा २-४ ] सुलभः । संग्रहप्रन्थत्वात्तु नेह प्रतन्यते । एवं चन सौगताभिमतं निविकल्पं प्रत्यक्षम, नापि योगाभिमत इन्द्रियार्थसन्निकर्षः । किं तहि ? विशदप्रतिभास ज्ञानमेव प्रत्यक्षं सिद्धम् ।
[ प्रत्यक्षं द्विधा विभज्य सांभ्यवहारिकस्य लक्षणपुरस्सरं भेदनिरूपणम् ]
$ ११. तत्प्रत्यक्षं द्विविधम् 1 - सांव्यवहारिकं पारमार्थिक चेति । तत्र देशतो विशदं सांव्यवहारिकं प्रत्यक्षम । यज्ज्ञानं देशतो विशदमीषन्निर्मल तत्सांव्यवहारिक प्रत्यक्षमित्यर्थः । तच्चतुविधम् – अवग्रहः, ईहा, अवायः, धारणा चेति । 'तत्रेन्द्रियार्थसमवधानसमनन्तरसमुत्थसत्तालोचनान्तरभावी सत्तावान्तरजातिविशिष्ट वस्तुग्रहों" ज्ञानविशेषोऽवग्रहः - यथायं पुरुष इति । नाऽयं संशयः, विषयान्तरव्युदासेन स्वविषयनिश्चायकत्वात् । तद्विपरीतलक्षणो हि संशयः । "यद्राजवात्तिकम् - "अनेकार्थानिश्चिताऽपर्युदासात्मकः संशयस्तद्विपरीतोऽवग्रहः'
१ सुबोधः | २ अत्र न्यायकायाम् । ३ विस्तार्यते । ४ प्रत्यक्षमिति सम्बन्धः । ५ सांध्यवहारिकप्रत्यक्षम् । ६ अवग्रहादिषु मध्ये ७ इन्द्रियार्थयोः समवधानं सन्निपातः सम्बन्ध इति यावत्, तत्पश्चादुत्पन्नो यः सत्तालोचनरूपः सामान्यप्रतिभासस्तस्यानन्तरं जायमानः श्रथ चावान्तरसत्ताविशिष्टवस्तुग्राहको यो ज्ञानविशेषः सोज्वग्रह इति भावः । स्वदिtureन्यो विषयों विषयान्तरम् तम्य व्युदासो व्यवच्छेदस्तेन स्वविषयातिरिक्तविषयव्यवच्छेदेन । स्थविषयभूतपरमार्थककोटिनिश्चायको ह्यवग्रहः । १० अवग्रहात्सर्वथा विपरीतः संशयः । ११ अवग्रह- संदाययोर्भेदसाधकं तत्त्वार्थ राजवासिकीथं लक्षणं प्रदर्शयति यदिति । १२ प्रयमर्थः - नानार्थ
I
1 ' तत्कियत्प्रकारं तद्विविधं ' इति म प्रतिपाठः ।
3