________________
न्याय-दीपिका
प्राप्तिसिद्धिः । प्राप्तिरेव हि सन्निकर्षस्ततो न सन्निकर्षस्याव्याप्तिरिति चेत् ; न ; अस्यानुमानाभासत्वात् । तद्यथा___$E. चारित्यत्र कः पक्षोभिनत: ? कि लौकिकं चक्षुरुतालौकिकम् ? 'आये हेतोः 'कालात्यापदिष्टत्वम्, गोलकाख्यः स्य। लौकिकत्रक्षुषो विषयप्राप्ते: प्रत्यक्षबाधितत्वात् । द्वितीये' स्वाश्रयासिद्धि:, अलौकिकस्य चक्षुषोऽद्याऽप्यसिद्धेः । शाखासुधादीधिति समानकाल ग्रहणान्यथानुपपत्तैश्च चक्षुरप्राप्यकारोति निश्चीयते । तदेवं सन्निकर्षाभावेऽपि चक्षुषा रूपप्रतीतिर्जायत इति सन्निकर्षोऽव्यापक' त्वात्प्रत्यक्षस्य स्वरूपं न भवतीति स्थितम् ।
६१०. "अस्य च प्रमेयस्य प्रपञ्चः" प्रमेयकमलमार्तणे
शक तन्न बहिरिन्द्रिम्, यथा मनः, बहिरिन्द्रयं चेदं चक्षुः तस्मात्प्राप्तार्थप्रकाशकमिति भावः ।
१ सदोषानुमानत्वमनुमानाभासत्वम् । २ स्वीकृतो भवता योगेन। ३ प्रथमे पक्षे । ४ वाघितपक्षानन्तरं प्रयुक्तो हि हेतुः कालात्यापदिष्ट उच्यते । ५ उत्तरविकल्पे-अलौकिकं च रित्यभ्युपगमे। ६ किरणरूपस्य । । सुपादीधितिः-चन्द्रमाः । E शाखाचन्द्रमसोस्तुल्यकालग्रहणं दृष्टं ततो ज्ञायते चक्षुरप्राप्यकारीति । प्राप्यकारित्वे तु क्रमश एव नयोग्रहणं स्यात् न युगपत्, परं युगपत योग्रहणं सर्वजनसाक्षिकमिति भावः । ६ अव्याप्तिदोषदुष्टत्वात् । १० एतस्य सन्निकर्षाप्रामाण्यविचारस्य । ११ विस्तरः ।
1'क्षस्य' इति म म प्रत्योः पाठः। 2 'ग्रहणाद्यन्यथानु' इति प्राम प मु प्रतिपाठः । ३ मा म मु प्रतिष 'ब' पाठो नास्ति ।